पूर्वम्: ४।१।७२
अनन्तरम्: ४।१।७४
 
सूत्रम्
शार्ङ्गरवाद्यञो ङीन्॥ ४।१।७३
काशिका-वृत्तिः
शार्ङ्गरवाऽद्यञो ङीन् ४।१।७३

शार्ङ्गरवादिभ्यो ऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति। शार्ङ्गरवी। कापटवी। अञनतेभ्यः बैदी। और्वी। जातिग्रहणम् अत्र अनुवर्तते। तेन जातिलक्षणो ङीषनेन बाध्यते, न पुंयोगलक्षणः, बैदस्य स्त्री बैदी। शार्ङ्गरव। कापटव। गौगुलव। ब्राह्मण। गौतम। एते ऽणन्ताः। कामण्डलेय। ब्राहमकृतेय। आनिचेय। आनिधेय। आशोकेय। एते ढगन्ता। वात्स्यायन। मौञ्जायन। एतौ फगन्तौ जातिः। कैकसेयो ढगन्तः। काव्यशैव्यौ यञन्तौ। एहि, पर्येहि कृदिकारान्तौ। आश्मरथ्यो यञन्तः। औदपानः। उदपानशब्दः शुण्डिकाद्यणन्तः प्रयोजयति। अराल। चण्डाल। वतण्ड। जातिः। भोगवद्गौरिमतोः संज्ञायाम् घादिषु नित्यं ह्रस्वार्थम्। नृनरयोर् वृद्धिश्च। अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन् विधीयते।
लघु-सिद्धान्त-कौमुदी
शार्ङ्गरवाद्यञो ङीन् १२७८, ४।१।७३

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात्। शार्ङ्गरवी। बैदी। ब्राह्मणी। (नृनरयोर्वृद्धिश्च)। नारी॥
न्यासः
शाङ्र्गरवाद्यञो ङीन्। , ४।१।७३

"बैदी, और्वी" इति। बिदौर्वशब्दाभ्यां "अनृष्यानन्तर्ये" ४।१।१०४ इत्यादिनाऽञ्, तदन्ताद्()गोत्रत्वाज्जातित्वे जातिलक्षणे ङीषि प्राप्ते ङीन् विधीयते। स्वरे विशेषः। "अणन्ता एते" इति। गोतमशब्दादपत्येऽर्थे "ऋष्यन्धकवृष्णि" ४।१।११४ इत्यादिनाऽण्, शेषेभ्यस्तु तस्यापत्यम्" ४।१।९२ इति। गौतमशब्दाद्गौरादिपाठात् ङीषपि भवति। "ढगन्ता एते" इति। शुभ्रादित्वात्। "कामण्डलेयः"इति। "ढे लोपोऽकद्र्वा" ६।४।१४७ इत्युकारलोपः। एषां "टिड्ढाणञ्" ४।१।१५ इति ङीपि प्राप्ते वचनम्। "वात्स्यायन" इति। वत्सशब्दाद्गर्गादियञन्तात् "यञिञोश्च" ४।१।१०१ इति फक्। "मौञ्जायन" इति। मुञ्जशब्दात् "नडादिभ्यः फक्" ४।१।९९ इति फक्। "जातिः" इति। गोत्रलक्षणा। लौकिकमपि हि तत्र गोत्रं गृह्रते। युवापि च लोके गोत्रमुच्यते, तथा हि वक्तारो वदन्ति-- गाग्र्यायणो गोत्रेणेति। "ढगन्ताः" इति। केकसशब्दस्य शुभ्रादित्वात् अढगन्ताञ्ञ्यङन्तादपि ताविति। कपिशिविशब्दाभ्यामपत्येऽर्थे "वृद्धेत्कोशलाजादाञ्ञ्यङ" ४।१।१६९ इति ञ्यङ्। "यङश्चाप्" ४।१।७४ इति चापि प्राप्ते वचनम्। "एहि, पर्येहि" इति। "ईह चेष्टायाम्" (धा।पा।६३२) इत्यस्मादाङपूर्वात् पर्याद्याङ्पूर्वाच्च "{इन् इत्येवोणादिसूत्रम्-- वृत्तौ तु सर्वधातुभ्यः इन्प्रत्ययो भवति इति दृश्यते-द।उ।} सर्वधातुभ्यः" (द।उ।१।४६) इतीन्प्रत्ययः। बह्वादिषु "कृदिकारादक्तिनः" (ग।सू।५०) इति पाठान्ङीषि प्राप्ते वचनम्। "यञन्तः" इति। गर्गादित्वात्। "यञश्च" ४।१।१६, "प्राचां ष्फ तद्धितः" ४।१।१७ इति ङीपि ष्फे च प्राप्ते वचनम्। "{उदपानः इति मुद्रितः पाठः} औदपानः"इति। उदपानादागत इति "शुण्डिकादिभ्योऽण्" ४।३।७६ इत्यण्। उत्सादिष्वयं पठ()त इति तत्राञि कृते नास्ति विशेषः-- ङीपो वा ङीनो वा, उभयत्रापि हि "ञ्नित्यादिर्नित्यम्" ६।१।१९१ इत्याद्युदात्तेन भवितव्यमित्येतन्मनसि कृत्वाऽ‌ऽह-- "शुण्डिकाद्यणन्तः प्रयोजयति" इति। "जातिः" इति। अरालचण्डालयोरसर्वलिङ्गत्वादिति जातित्वम्। वतण्डस्य गौरादिलक्षणे ङीषि प्राप्ते वचनम्। प्रत्ययलक्षणेन "यञश्च" ४।१।१६, "प्राचां ष्फ तद्धितः" ४।१।१७ इति ङीष्फयोर्बाधनम्। वतण्डस्यापत्यं स्त्री "वतण्डाच्च" ४।१।१०८ इति यञ्, तस्य "लुक् स्त्रियाम्" ४।१।१०९ इति लुक्। "भोगवद्गौरिमतोः संज्ञायाम्" इति। संज्ञायां गम्यमानायां भोगवद्गौरिमच्छब्दाभ्यां ङीन् भवति। मत्वन्तत्वात् "उगितश्च" ४।१।६ इति ङीपि प्राप्ते वचनम्। ननु च बोगशब्दो घञन्तः, गौरिश्बदः "अत इञ्" ४।१।९५ इतीञन्तः, तेन द्वावप्येतौ ञित्स्वरेणाद्युदात्तौ। ताभ्यां मतुप्, पित्त्वादनुदात्तः। तथा च भोगवद्गौरिमद्भ्यां ङीपि ङीनि वा विहिते न कश्चिद्विशेषः, तत्किमर्थं ताभ्यां ङिन् विधीयते? इत्यत आह-- "घादिषु नित्यं ह्यस्वार्थम्" इति। "घरूपकल्प" ६।३।४२ इत्यादिषु नित्यं ह्यस्वो यथा स्यादिति ताभ्यां ङीनो विधानम्-- भोगवतितरा, गौरिमतितरेति। यदि पुनरुगिल्लक्षणो ङीप्क्रियेत,ततः "नद्याः शेषस्यान्तयतरस्याम्" ६।३।४३ इत्यनुवत्र्तमाने "उगितश्च" ६।३।४४ इति विकल्पेन ह्यस्वत्वं स्यात्। अथानेनापि ङीनि सति कस्मादेव "उगितश्च" ६।३।४४ इत्यन्यरस्यां ह्यस्वत्वं न भवति, यावता भोगवद्गौरिमद्भ्यामुगिद्भ्यामेवायं त्सया विकल्पेन ह्यस्वत्वं भवतीति। न चानेन सूत्रेण या विहिता सा नद्युगित्संशब्दनेन विहिता भवति; उगित्त्वानाश्रयणात्। संज्ञायामिति किम्? भोगवती, गौरिमतीति। "उगितश्च" ४।१।६ इति ङीप्। अत्र च घादिषु विकल्पनैव ह्यस्वो भवति-- भोगवतितरा , भोगवतीतरा, गौरिमतितरा, गौरीमतीतरेति। "नृनरयोर्वद्धिश्च" इति। नृशब्दस्य "ऋन्नेभ्यो ङीप्" ४।१।५ इति ङीपि प्राप्ते वचनम्। नरशब्दस्य "अजाद्यतः" ४।१।४ इति टापि प्राप्ते जातित्वान्ङीषि वा। जातित्वं त्वाकृतिग्रहणात्। वृद्धिश्च तयोर्भवति, सा च नृशब्दस्यालोऽन्त्यपरिभाषया १।१।५१ ऋकारस्यस्थाने भवति। नरशब्दस्य "यस्येति" ६।४।१४८ लोपे कृते सत्यकारस्य। ननु च "अनन्त्यविकारेऽन्त्यसदेशस्य" (व्या।प।६३) इति रेफस्यैव भवितव्यम्? नैष दोषः; वृद्धेर्याऽन्तरमा प्रकृतिस्तत्र षष्ठी, यत्र षष्ठी तत्रादेश इत्यकारः स्थानी ज्ञायते। पुत्रशब्दमत्र केचित् पठन्ति, न स केवलः स्तियां वत्र्तत इत्ययं समासन्तो गृह्रते। समासान्ते च वत्र्तमानो दुहितृशब्देन समानार्थो भवन् स्त्रीलिङ्गो भवति-- प्रद्योतपुत्त्री, शैलपुत्त्रीति। "यथोयोगम्" इति। यथासम्भवम्॥
बाल-मनोरमा
शाङ्र्गर्वाद्यञो ङीन् ५२०, ४।१।७३

शाङ्र्गरवाद्यञो ङीन्। शाङ्र्गरवादीति लुप्तपञ्चमीकम्। "अञ" इति षष्ठी। "अत" इत्यनुवृत्त पञ्चम्यन्ते अन्वेति। जातेरित्यनुवृत्तमता विशेष्यते। तदन्तविधिः। तदाह--शाङ्र्गरवादेरित्यादिना। शङ्र्गरवीति। श्रृङ्गरोरपत्यं स्त्रीत्यर्ते अण्, आदिवृद्धिः, रपरत्वम्, ओर्गुणः "गोत्र च चरणैः सहे"ति जातित्वान्ङीषि प्राप्ते ङीन्। स्वरे विशेषः। वैदीति। विदस्यापत्यं स्त्रीत्यर्थः। "अनृष्यानन्तर्ये विदादिभ्योऽञ्"। गोत्रत्वेन जातित्वान्ङीषि प्राप्ते ङीन्। अञा अकारस्य विशेषणान्नेह-शूरसेनी। "जनपदशब्दा"दित्यपत्येऽञ्। "अतश्चे"ति तस्य लुक्। अत्र जातिलक्षणङीषेव न तु ङीन्, अञो लुप्तत्वेन नकारादकारस्य अञोऽवयवत्वाऽभावात्। नृनरयोर्वृद्धिश्चेति। चकारात् ङीन्। नारीति। नृनरशब्दयोरुभयोरुदाहरणम्। तत्र नृशब्दात् "ऋन्नेभ्यः" इति ङीपि प्राप्ते ङीन्, ऋकारस्य वृद्धिः, रपरत्वम्। जातिलक्षणङीषस्तु नृशब्दान्न प्रसक्तिः, तत्र "अत" इत्यनुवृत्तेः। नरशब्दात्तु ङीनि नकारादकारस्य वृद्धिः। ननु परमपि "यस्येति चे"ति लोपं बाधित्वाऽन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादकारस्य वृद्धिः स्यात्। न च कृतायामपि वृद्धौ "यस्येति चे"त्यकारलोपः स्यादिति वाच्यं, वृद्धिविधिसामथ्र्यादेव तस्य लोपाऽभावासिद्धेरिति चेदुच्यते-नृनरयोरित्यत्र "नर्" इति रेफान्तस्य लुप्ताकारस्यानुकरणम्। नरः-अः-नरः, ना च नरश्च नृनरौ, तयोरिति विग्रहः। नचैवमपि वानरीशब्देऽतिप्रसङ्ग इति वाच्यम्, अर्थवत एव ग्रहणात्। न च नृशब्दान्ङीनि वृद्धौ नारीति सिद्धेर्नरग्रहणं व्यर्थमिति वाच्यं, नरत्वजातिवाचिनो नरशब्दात्स्त्रियां जातिलक्षणङीषि नरीति व्यावृत्त्यर्थत्वात्। वस्तुतस्तु "नृनरयोर्वृद्धिश्चे"ति गणसूत्रं नारब्धव्यमेव। "तदस्य धम्र्य"मित्यनुवृत्तौ "ऋतोऽञि"ति सूत्रेण "नरस्य चे ति वक्तव्य"मिति वार्तिकेन च नुर्धम्या नरस्य धम्र्येत्यर्ते नृशब्दान्नरशब्दाच्च अञि ततः "टिड्ढाण"ञिति ङीपि नारीति सिद्धेः। "ञ्नित्यादिर्नित्य"मिति प्रकृतेराद्युदात्तत्वे ङीपः पित्त्वादनुदात्तत्वम्। ङीन्यपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाऽभावात्। नचैवं सति मनुष्यधम्र्यत्वेनैव बोधः स्यान्न तु नरत्वेनेति वाच्यं, योग्यतया हि तद्धम्र्या नरत्वाजातिविशिष्टैव बुध्यते। अत एव वास्तुनि भवो वास्तव्य इति रूपस्य "दिगादिभ्यो य"दिति भवार्थकतया सिद्धत्वात् "वसेस्तव्यत्कर्तरि णिच्चे"ति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते। रूढानां यथाकथंचिदन्वाख्यानमिति कैयट इति शब्देन्दुशेखरे स्थितम्।

तत्त्व-बोधिनी
शाङ्र्गरवाद्यञो ङीन् ४६९, ४।१।७३

शाङ्र्गरवीति। श्रऋङ्गरुशब्दादपत्येऽण्। आदिवृदधिः। "ओर्गुणः""टिड्ढाणञ---"इति ङीषं बाधित्वा परत्वात् "जातेः"इति ङीषि प्राप्तेङीन् विधीयते। तेन नित्त्विदाद्युदात्तः। ङीषि तु प्रत्ययस्वरेणाऽन्तोदात्तः स्यात्। बैदाति बिदस्यापत्यं स्त्री। "अनृष्यानन्तर्येबिदादिभ्योऽञ्"।पूर्ववज्जातिलक्षणे ङीषि प्राप्ते ङीन् विधीयते। शाङ्गरव कापटव ब्राआहृणा गौग्गुलव गौतम इत्यादि। श्रृङ्गारुकपटुब्राहृन्गुग्गुलुशब्देभ्यः प्राग्दीव्यतोऽण्। गौतमशब्द ऋष्यणन्तः। अयं गौरादिविष्विपि पठित इति पक्षे अत्र ङीषपि भवति। ङीषेवेति। "जाते" रित्यननुवृत्तौ तु शाङ्र्गरवस्य स्त्री बिदस्य स्त्रीति पुंयोगविवक्षायामपि परत्वान्ङीनेव स्यादिति भावः।

नृनरयोर्वृद्धिश्चेति गणसूत्रम्। नृनरयोरिति। नृशब्दात् "ऋन्नेभ्यः"इति ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनं वृद्धिविधानार्थम्। ननु नरशब्दे "अलोऽन्त्यस्ये"ति वृद्धिः स्यात्। अत्राहुः--"वर्णादाङ्गं बलीयः"इत्याकारस्य "यस्येति चे"ति लोपोनापहारादनन्त्य्स्याप्यकारस्य वृद्धिर्भवतीति। यद्वा। नरस्य--अः नरः। कतन्तवत्पररूपम्। ना च नरश्च तयोर्नृनरयोः। परस्य च प्रथम एवाऽकारो गृह्रते न तु द्वितीयः, पर्श्लेषसामथ्र्यादिति। इह नरस्येत्यर्थवतो ग्रहणाद्वानरशब्दे नातिप्रसङ्ग इति बोध्यम्। यद्यर्यन्यतरोपादानेनापि "नारी"ति रूपं सिध्यति तथाप्यन्यतरस्यानिष्टरुपनिवृत्त्यर्थं द्वयोरूपादानम्। कथं तर्हि "किन्नरीणां नारीणां"मित्यादिप्रयोगः()। अत्राहुः--नरस्य स्त्री नरी। पुंयोगलक्षणो ङीषे। एवं च किन्नरूत्यपि सिद्धम्। किचिन्नरीति विग्रहादिति। केचित्तु अनिर्दिष्टस्थानिकत्वादिक्परिभाषोपस्थितौ नृ शब्दस्यैव वृद्धेर्नारीति भवति। नरशब्दस्य ग्रहणं तु ङीनर्थमेव। तत्राऽनिको वृद्द्यभावान्नरीत्येव भवितव्यमित्याठुः। तदपरे न क्षमन्ते। यदि ङीनर्थमेव नरशब्दग्रहणं स्यात्तर्हि शाङ्र्गरवादिगणे पृथगेव पठेत्। वृद्धिविधायके तद्गणसूत्रे तत्पाठस्य वैयथ्र्यापत्तेरिति। पुत्रशब्दोऽत्र गणे पठ()ते। ततः स्त्रियां ङीन्। पुत्री। न च पुत्रशब्दः कन्यायां नास्तीति शङ्क्यम्, "आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रीयां त्वमी। आहुर्दुहितरं सर्वे"इत्यमरोक्तेः। तेन "पुत्रीव हर्षं ह्मदये तनोति"। "कुर्वे तदुर्वीपतिपुत्रि। सर्वम्ित्यादिप्रयोग निर्बाधा एव। यत्त्वत्र हरदत्तेनोक्तम्--"कोवलः पुत्रशब्दः स्त्रियां नास्ती"ति। तदुपेक्ष्यम्। उदाह्मतकोशविरोधात्। "सूतिकापुत्रिस्थवार्तिकं व्यर्थमिति मनोरमायां स्थितम्।