पूर्वम्: ४।३।२६
अनन्तरम्: ४।३।२८
 
सूत्रम्
संज्ञायां शरदो वुञ्॥ ४।३।२७
काशिका-वृत्तिः
संज्ञायां शरदो वुञ् ४।३।२७

शरच्छब्दात् सप्तमीसमर्थाज् जातः इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति ऋत्वणः अपवादः, समुदायेन चेत् संज्ञा गम्यते। शारदका दर्भाः। शारदका मुद्गाः। दर्भविशेषस्य मुद्गविशेषस्य च इयं संज्ञा। संज्ञायाम् इति किम्? शारदं सस्यम्। संज्ञाधिकारं केचित् कृतलब्धक्रीतकुशलाः ४।३।३८ इति यावदनुवर्तयन्ति।
न्यासः
संज्ञायां शरदो वुञ्। , ४।३।२७

"समुदायेन चेत्संज्ञा गम्यते" इति। अनेन समुदायोपाधित्वं संज्ञाया दर्शयति।प्रकृतिप्रत्ययसमुदायेन चेत्संज्ञा गम्यते इत्यर्थः। यद्येवम्, शारदका दर्भा इतिदर्भशब्दस्य प्रयोगो न प्राप्नोति, प्रत्ययान्तेनाभिहितत्वात्? नैष दोषः; यथैव हि शारदकशब्दो दर्भविशेषस्य नामधेयं तथा मुद्गविशेषस्यापि। तत्रासति दर्भशब्दप्रयोगेऽनेकार्थसाधारणत्वात् कस्य नामधेयमिति सन्देहः स्यात्--- कोऽर्थः शारदकशब्दे विवक्षित इति। तस्मादसन्देहार्थो दर्भशब्दो उपादीयते। "संज्ञाधिकारम्" इत्यादि। "केचित्" इति वचनात् केचिन्नानृवत्र्तयन्तीत्युक्तं भवति॥ "पूर्वाह्णकः,अपराह्णकः" इति। पूर्ववदेकदेशिसमासादिकं कार्यं विधेयम्-- "विभाषा पूर्वाह्णापराह्णाभ्याम्" ४।३।२४ इति, तत्र ट()उट()उल्()विधिश्च। "आद्र्रकः, मूलकः" इति। "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यागतस्यार्थः "लुबविशेषे" ४।२।४ इति लुप् ततो वुन्। "निशाप्रदोषाभ्याम्िति। ठञ्विधेः। "ठञादय एव " आदिशब्देन ट()उट()उलादयो गृह्रन्ते॥
बाल-मनोरमा
संज्ञायां शरदो वुञ् १३७५, ४।३।२७

संज्ञायां शरदो वुञ्। संज्ञायामित्येतदत् "कृतलब्धक्रीते"त्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः।

तत्त्व-बोधिनी
संज्ञायां र?सदो वुञ् १०८१, ४।३।२७

संज्ञायां शरदः। समुदायेन चेत्संज्ञा गम्यत इत्यर्थः। संज्ञायां किम्()। शारदं सस्यम्। "संज्ञाया"मित्येतत् "कृतलब्धे"त्येतत्पर्यन्तं केचिदनुवर्तयन्तीति वृत्तिकृत्।