पूर्वम्: ४।३।२
अनन्तरम्: ४।३।४
 
सूत्रम्
तवकममकावेकवचने॥ ४।३।३
काशिका-वृत्तिः
तवकममकावेकवचने ४।३।३

एकवचनपरयोर् युष्मदस्मदोः तवक ममक इत्येतावादेशौ भवतः यथासङ्ख्यं तस्मिन् खञि अणि च परतः। निमित्तयोस् तु यथासङ्ख्यं पूर्ववदेव न भवति। ननु च न लुमता अङ्गस्य १।१।६२ इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर् न सम्भवति? वचनात् प्रत्ययलक्षणम् भविष्यति। अथ वा न एव इदं प्रत्ययलक्षणं, किं तर्ह्यन्वर्थग्रहणम्। एकवचने युष्मदसमादी एकस्य अर्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः। तावकीनः। मामकीनः। तावकः। मामकः। तस्मिन्नणि च इत्येव, त्वदीयः। मदियः।
लघु-सिद्धान्त-कौमुदी
तवकममकावेकवचने १०८४, ४।३।३

एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु -।
न्यासः
तवकममकावेकवचने। , ४।३।३

पूर्वेण युष्माकास्माकयोः प्राप्तयोः "प्रत्ययोत्तरपदयोश्च" ७।२।९८ इति त्वमयोरेकवचनेतवकममकावादेशौ विधीयेते। "एकवचनपरयोः" इति। एकवचनं परं याभ्यां ते तथोक्ते। "निमित्तयोस्तु" इत्यादि। यथा पूर्व एव सूत्रे योगविभागान्निमित्तयोरादेशौ प्रति यथासंख्यत्वं न भवति, तथेहापि न भविष्यति। तस्य च यथासंख्याभावस्य पूर्वसूत्र एव योगविभागो हेतुः। तेन हि पूर्वत्र निमित्ते निवृत्ते यथासंख्ये कृते तस्मादिहाप्यनुवत्र्तते। ते निवृत्ते यथासंख्ये एवानुवत्र्तेते; अजहद्धर्मत्वादधिकाराणाम्। तस्मादिहापि पूर्वकयोगविभागाद्यवासंख्यभावः। इह सर्वविधिभ्यो लुग्विधिर्वलवानित्येकवचनस्य लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलोपलक्षणेन समर्थयितव्या। तदपि प्रत्ययलोपलक्षमं प्रतिषेधलक्षणं प्रतिषेधयितुमाह-- "ननु च" इत्यादि। "वचनात्" इत्यादि परिहारः। यदि हि प्रत्ययलोपलक्षणं न स्यादिदं वचनमपार्थकं स्यादित्यभिप्रायः। ननु च यस्यैवक वचनपरता सम्भवति तस्य विशेषणार्थमेकवचनं स्यात्, कस्यैकवचनपरता सम्भवति? निमित्तस्य खञादेः। निमित्ते त्वेकवचनपरत्वेन विशेष्यमाणे सतीहैव स्याताम्-- यौष्माकः पुत्रः, आस्माकः पुत्रः; अत्र ह्रेकवचनपरत्वम्, तद्धि तस्योपपद्यते; इह च न स्याताम्-- तावकाः पुत्राः, मामकाः पुत्रा इति। न ह्रत्र निमित्तस्यैकवचनपरता सम्भवतीति? नैतदस्ति; युष्मदस्मदी पूर्वसूत्रे विशेषे अभूताम्। तथा हि-- खञ्यणि च परतो युष्मदस्मदोरिति खञण्परता तयोः, अत एव युष्मदस्मदी विशेष्येते। तदिहापि तथाभूते एवानुवत्र्तेते; अजहद्धर्मत्वादधिकाराणामिति तयोरेवैकवचनपरत्वं विशेषणं युक्तम्। अथ वा तवकममकयोर्विधेयत्वेन प्राधान्यात् तयोरेवैतद्विशेषणं युक्तम्। तयोरेव तद्विशेषणं भवत् स्थानिद्वारकमेव भवति। यदि स्थानिनोरेकवचनपरता, एवमादेशौ स्थानिवत्त्वादेकवचनपरौ भवतः। तदनेनापि प्रकारेण युष्मदस्मदोरेकवचनविशेषणं युक्तम्। न तु कथञ्चिन्निमित्तस्य खञादेः। "अथ वा" इत्यादि। पुर्वं पारिभाषिकमेकवचनमाश्रित्य व्याख्यातम्, इदानीं त्वर्तमाश्रित्य व्याचष्टे-- एकोऽर्थ उच्यते येन तदेकवचनम्। अत्र तु व्याख्याने "एकवचने" इति नेदं सप्तम्येकवचनम्। किं तर्हि? प्रथमाद्विवचनान्तम्॥
बाल-मनोरमा
तवकममकावेकवचने १३५२, ४।३।३

तवकममकौ। "एकवचने" इति युष्मदस्मदोः प्रकृत्योर्विशेषणम्। एकस्य वचनम्ुक्तिः-एकवचनम्। एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते। तदाह--एकार्थवाचिनोरिति। छे त्विति। "एकार्थवृत्तयोर्विशेषो वक्ष्यते" इति शेषः।

तत्त्व-बोधिनी
तवकममकावेकवचने १०६८, ४।३।३

तवक। इह पूर्ववदेव निमित्तयोः खञणोरादेशौ प्रति यथासङ्ख्यं न भवति, किंतु स्थान्यादेशयोरेवेत्याशयेनोदाहरति----तावकीनः। मामकीन इति। परावरा "परावराधमोत्तमेभ्यः"इत्येव वक्तव्ये पूर्वग्रहणं पूर्वविप्रतिषेधसूचनार्थम्। तेन दिक्शब्दयोः परावरयोकर्धशब्देन समासे उत्तरसूत्रेण प्राप्तावपि ठञ्यतौ बाधित्वा यदेव भवति।