पूर्वम्: ४।३।३
अनन्तरम्: ४।३।५
 
सूत्रम्
अर्धाद्यत्॥ ४।३।४
काशिका-वृत्तिः
अर्धाद् यत् ४।३।४

अर्धशब्दात् यत् प्रत्ययो भवति शैषिकः। अणो ऽपवादः। अर्ध्यम्। सपूर्वपदाट् ठञ् वक्तव्यः। बालेयार्धिकम्। गौतमार्धिकम्।
न्यासः
अर्धाद्यत् । , ४।३।४

बाल-मनोरमा
अर्धाद्यत् १३५४, ४।३।४

अर्धात्। अध्र्य इति। अर्धे जातादिरित्यर्थः। "सपूर्वपदाट्ठञ् वाच्यः" इति वार्तिकं भाष्ये स्थितम्। बालेयार्धिकः।