पूर्वम्: ४।३।३२
अनन्तरम्: ४।३।३४
 
सूत्रम्
अणञौ च॥ ४।३।३३
काशिका-वृत्तिः
अणञौ च ४।३।३३

सिन्ध्वपकरशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः तत्र जातः ४।३।२५ इत् येतस्मिन् विषये। पूर्वेण कनि प्राप्ते वचनम्। सैन्धवः। आपकरः।
न्यासः
अणञौ च , ४।३।३३

यथासंख्यार्थो योगविभागः। यदि "सिन्ध्वपकराभ्याञ्च कन्नणञः" इत्येकयोगः क्रियेत,ततो वैषम्यादेकैकस्याः प्रकृतेः प्रत्ययास्त्रयः स्युः॥
बाल-मनोरमा
अणञो च १३८५, ४।३।३३

अणञो च। क्रमात्स्त इति। "सिन्ध्वपकराभ्या"मिति शेषः।

तत्त्व-बोधिनी
अणञौ च १०८८, ४।३।३३

अणञौ च। यथासङ्ख्यार्थो योगविभागः।