पूर्वम्: ४।३।३३
अनन्तरम्: ४।३।३५
 
सूत्रम्
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त- विशाखाऽषाढाबहुलाल्लुक्॥ ४।३।३४
काशिका-वृत्तिः
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल् लुक् ४।३।३४

श्रविष्ठाऽअदिभ्यः शब्देभ्यः नक्षत्रेभ्यः आगतस्य जातार्थे लुग् भवति। तस्मिन् स्त्रीप्रत्ययस्य अपि लुक् तद्धितलुकि १।२।४९ इति भवति। श्रविष्ठासु जातः श्रविष्ठः। फल्गुनः। अनुराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः। विशाखः। अषाढः। बहुलः। लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम्। चित्रायां जाता चित्रा। रेवती। रोहिणी। स्त्रीपर्त्ययस्य लुकि कृते गौरादित्वात् ङीष्। फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। फल्गुनी। अषाढा। श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः। श्राविष्ठीयः। आषाढीयः।
न्यासः
श्रविष्ठाफल्गुन्यनुरादास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्। , ४।३।३४

नक्षत्राणः श्रवणे प्राप्ते लुगुच्यते। ननु च "नक्षत्रेभ्यो बहुलम्" (४।३।३७) इत्यनेनैव लुग्भविष्यति? सत्यमेतत्; तस्यैवायं प्रपञ्चः। उत्तरावपि योगौ प्रपञ्चौ तस्यैव वेदितव्यौ।श्रविष्ठादयश्चैते " नक्षत्रेण युक्तः कालः" ४।२।३ इत्यनेनानगतस्याणः "लुबविशेषे" ४।२।४ इति कृते लुबन्ता वेदितव्याः।" स्त्रीप्रत्ययस्यापि" "लुक् तद्धितलुकि" १।२।४९ इति लुग्भवति" इति। ये स्त्रीप्रत्ययान्तास्तेषामुपसंख्यानमिति प्रतिपादनमित्य्रथः। तच्चोपरिष्टात् करिष्यते। चित्रायाष्टापो लुकि कृते पुनष्टाप् क्रियते। "गौरादित्वान्ङीष्" इति। रेवतीरोहिणीत्यत्र। "फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ" इति। स्त्रियामित्यपेक्ष्यते। तयोस्तु विधानसामथ्र्यान्न लुग्भवतिष। टस्य टकारो ङीबर्थः, अनो नकार आद्युदात्तार्थः। वक्तव्यशब्दो व्याख्येये वत्र्तते। व्याख्यानं तु कृतमेव च। "श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः" इति। अत्र स्त्रियामिति नोपपद्यते। णकारो वृद्ध्यर्थः। वक्तव्यशब्दस्य स एवार्थः। व्याख्यानमपि करिष्यते च। कृतमेव॥
बाल-मनोरमा
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् १३८६, ४।३।३४

श्रविष्ठा। एभ्य इति। श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्ट, पुर्नर्वसु, हस्त विशाखा, अषाढा, बहुला--एतेभ्यः इत्यर्थः। जातार्थेति। प्रकरणलभ्यमिदम्। स्वातिशब्दो ह्यस्वान्त इति कैयटहरदत्तौ। दीर्घान्त इति "अत सातत्यगमने" इति धातौ माधवः। कृत्तिकावाचिबहुलाशब्दष्टाबन्तः। समाहारद्वन्द्वे ह्यस्वनिर्देशः।

तत्त्व-बोधिनी
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् १०८९, ४।३।३४

श्रविष्ठ। इह सूत्रे स्वातिशब्दो ह्यस्वान्त इति कैयटहरदत्तादयः। माधवस्तु "दीर्घन्तः"इति "अत सातत्यगमने"इति धातावाह। एवं चात्र स्वाती तिष्येति ङीषन्तग्रहणादङीषन्तस्य सौवात इति रूपं भवार्थं इव जातार्थेऽपि माधवमते सिध्यत्वेव। कैयटादिमते तु जातार्थे न सुध्यति। लुग्विधायकेऽस्मिन्ङीषन्तग्रहणेऽपि लिङ्गविशिष्टपरिभाषया ङीषन्तादपि अणो लुकःप्रवृत्तेः।