पूर्वम्: ४।३।३६
अनन्तरम्: ४।३।३८
 
सूत्रम्
नक्षत्रेभ्यो बहुलम्॥ ४।३।३७
काशिका-वृत्तिः
नक्षत्रेभ्यो बहुलम् ४।३।३७

नक्षत्रेभ्यः उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग् भवति। रोहिणः, रौहिणः। मृगशिराः, मार्गशीर्षः।
न्यासः
नक्षत्रेभ्यो बहुलम्। , ४।३।३७

"रोहिणः"इत्यादौ नक्षत्राणः पक्षे लुक्। "मृगशिराः"इति। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः।"मार्गशीर्षः"इति। "ये च तद्धिते" ६।१।६० इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाच्छिरसः शीर्षभावः। अथ बहुलग्रहणं किमर्थम्? नपूर्वसूत्रादेव वाग्रहणमनुवर्तिष्यते? इदं प्रयोजनम्-- न क्वचिदन्यदेव यथा स्यात्, तेन फल्गुन्यषाढाभ्यां टानौ सिद्धौ भवतः। श्रविष्ठाषाढाभ्याञ्छणपीति॥
बाल-मनोरमा
नक्षत्रेभ्यो बहुलम् १३९१, ४।३।३७

नक्षत्रेभ्यो बहुलं। रोहिण इति। रोहिण्यां जात इत्यर्थः। नक्षत्राऽणो लुकि आदिवृद्धिनिवृत्तौ "लुक्तद्धितलुकी"ति स्त्रीप्रत्ययनिवृत्तिः। नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यं, न हि रोहितशब्दोऽयं वर्णविशेषवाचको येन "वर्णादनुदात्ता"दिति ङीपो निवृत्तौ तकारोऽपि निवर्तेत। किंतु रोहिणीशब्दोऽयमब्युत्पन्नो नक्षत्रविशेषे रूढः। "रोहिणी नक्षत्रे" इति गौरादि पाठान्ङीष्। अत एव "रोहिणी नक्षत्रं प्रजापतिर्देवते"त्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते। अन्यथा "वर्णानां तणतिनितान्ताना"मित्याद्युत्तत्वं स्यादित्यलम्।