पूर्वम्: ४।३।३५
अनन्तरम्: ४।३।३७
 
सूत्रम्
वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा॥ ४।३।३६
काशिका-वृत्तिः
वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा ४।३।३६

वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति। वत्सशालायां जातः वत्सशालः, वात्सशालः। अभिजित्, आभिजितः। अश्वयुक्, आश्वयुजः। शतभिषक्, शातभिषजः। बहुलग्रहणस्य अयं प्रपञ्चः।
न्यासः
वत्सशालाभिजिद�आयुक्त्शतभिषजो वा। , ४।३।३६

वत्सशालशब्दो नपुंसकलिङ्गो गृह्रते। कुत एतस्()व्यप्तेव्र्यायात;नपुंसकलिङ्गस्य हि ग्रहणे लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुग्न सिध्यति; न तु स्त्रीलिङ्गस्य ग्रहणे नपुंसकात्। "बहुलग्रहणस्यायं प्रपञ्चः" इति। वत्सशालशब्दो यद्यपि नक्षत्रवचनो न भवति, तथापि बहुलवचनात् ततोऽपि लुग्भविष्यतीत्यभिप्रायः॥
बाल-मनोरमा
वत्सशालाऽभिजिद�आयुक्छतभिषजो वा १३९०, ४।३।३६

वत्सशालाभिजित्। एभ्य इति। वत्सशाला, अभिजित्, अ()आयुज्, शतभिषज् इत्येभ्य इत्यर्थः। "परस्ये"ति शेषः। इत्यादीति अभिजिति जात आभिजितः, अभिजित्। अ()आयुजोर्जातः-आ()आयुजः, अ()आयुक्। शतभिषजि जातः-शातभिषजः , शतभिषक्।

जातार्थे इति। "कालाट्ठञि"ति ठञा निवर्तित औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः। "दृष्टं सामे"ति सूत्र भाष्ये इदं वार्तिकं दृष्टम्। शातभिष इति। अणि ङित्त्वपक्षे टिलोपः।

तत्त्व-बोधिनी
वत्साशालाऽभिजिद�आयुक्छकभिषतो वा १०९२, ४।३।३६

वत्सशालाभि। वत्सशाले जात इति। वत्सशालायामित्यपि बोध्यम्। इत्यादीति। आदिशब्दादभिजित्--आभिजितः, अ()आयुक्--आ()आयुजः। प्रतिप्रसूत इति। कालाट्ठञा निवर्तमानो य औत्सर्गिकोऽण् "सन्धिवेलादि"सूत्रेण पुनरभ्यनुज्ञात इत्यर्थः।