पूर्वम्: ४।३।४१
अनन्तरम्: ४।३।४३
 
सूत्रम्
कोशाड्ढञ्॥ ४।३।४२
काशिका-वृत्तिः
कोशाड् ढञ् ४।३।४२

कोशशब्दात् ठञ् प्रत्ययो भवति तत्र सम्भूते इत्यस्मिन् विषये। अणो ऽपवादः। कोशे सम्भूतं कौशेयं वस्त्रम्। रूढिरेषा, तेन क्रिमौ न भवति, खङ्गकोशाच् च।
लघु-सिद्धान्त-कौमुदी
कोशाड्ढञ् १०९४, ४।३।४२

कौशेयम् वस्त्रम्॥
न्यासः
कोशाड्ढञ्। , ४।३।४२

"कौशेयं वस्त्रम्" इति। ननु च वरुआं कौशेयं न सम्भवति, किन्तु कृमिः, ततश्च कृमावेव स्यात्, न वस्त्रे; अपि च विशेषानभिधानात् खड्गसम्बन्धिनोऽपि कोशात् प्रत्ययः प्रसज्येतेत्याह-- "रूढिरेषा" इत्यादि। रूढिशब्दो हि यथाकथञ्चिदुत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिदवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, स च तैलपानक्रियारहित एव क्वचित् प्राणिविशेषे वत्र्तते। सस्माद्यद्यपि न कृमौ। अथ खङ्गकोशादुत्पत्तौ को दोषः, येन ततः प्रत्ययो नेष्यते? खङ्गस्याबिधानं प्राप्नोति। स हि तत्र सम्भवतीति चेत्? इतरस्मादपि तर्हि कोशात् प्रत्ययोत्पत्तौ च कृमेरभिधानं प्राप्नोति, स हि तत्र सम्भवति। अथ तत्रापि रूढिवशाद्वस्त्रस्याभिधानम्, न कृमेः। इतरस्मादपि तर्हि कोशादुत्पत्तौ वरुआस्याभिधानं न खङ्गस्य? एवं मनयते-- यद्यपि सम्भूताधिकारे कोशाड्ढञ् विधीयते, तथापि कौशेयशब्दान्न सम्भवोऽर्थ प्रतीयते, अपि तु विकारोऽर्थः; रूढिवशात्। कौशेयं वरुआमितिकोशविकारो वरुआमित्यर्थः। तथा च वार्त्तिककारेणोक्तम्-- "विकारे कोशाड्ढञ्, "{सम्भूतार्थानुपपत्तिः--वा।पाठः"} सम्भूतार्थानुपपत्तेः" (वा। १,२४।३।४२ इति। विकारस्च कौशेयशब्दात् कृमिकोशस्य प्रतीयते, न खङ्गकोशस्य ; रूढिवशात्। तस्माद्यस्य विकारः प्रतीयते तदभिधायिन एव कोशशब्दाद्युक्कतः प्रत्ययः नेतरस्मात्॥
बाल-मनोरमा
कोशाड्ढञ् १३९६, ४।३।४२

कोशाड्ढञ्। कौशेयं वस्त्रमिति। कृमिविशेषकोशस्य विकार इत्यर्थः। "विकारे कोशाड्ढ"ञिति वार्तिकात्।

तत्त्व-बोधिनी
कोशाड्ढञ् १०९७, ४।३।४२

केशात्। कौशेयमिति। वस्त्रविशेषे योगरूढोऽयम्। कोशे संभवस्तु सत्कार्यवादाभिप्रायेण। मतान्तरे तु विकारप्रकरणे "एण्या ढ"ञित्यस्यानन्तरं "कोशाच्चे"ति पठितव्यम्। तथा च वार्तिकं "विकारे कोशाड्ढञ", संभूते ह्रार्थानुपपत्ति"रिति।