पूर्वम्: ४।३।४९
अनन्तरम्: ४।३।५१
 
सूत्रम्
संवत्सराग्रहायणीभ्यां ठञ् च॥ ४।३।५०
काशिका-वृत्तिः
संवत्सराऽग्रहायणीभ्यां ठञ् च ४।३।५०

संवत्सराऽग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद् वुञ् च देयम् ऋणम् इत्येतस्मिन्नर्थे संवत्सरे देयम् ऋणं सांवत्सरिकम्, सांवत्सरकम्। आग्रहयणिकम्, आग्रहायणकम्। वा इति वक्तव्ये ठञ्ग्रहणं सन्धिवेलादिषु संवत्सरात् फलपर्वणोः इति पठ्यते, तत्र फले ऋणत्वेन विवक्षिते ऽणं बाधित्वा ठञेव यथा स्यातिति
न्यासः
संवत्सराग्रहायणीभ्यां ठञ्च। , ४।३।५०

कालाट्ठञि प्राप्ते वचनम्। तेन ठञ् न वक्तव्य इति। वुञि विकल्पिते विनापि ठञ्ग्रहणेन पक्षे यथाप्राप्तं ठञेव भवतीत्यभिप्रायः। "ठञ्ग्रहणम्" इत्यादि। तत्र यद्यत्र ठञ्ग्रहणं न क्रियेत "सन्धिवेला" ४।३।१६ इत्यादिषु "संवत्सरात्फलपर्वणोः" (ग।सू।१०४) इति पाठात् सन्धिवेलाद्यणष्ठञपवादत्वादणत्वेन काले विवक्षिते वुञा मुक्तेऽणेव स्यात्। ठञ्ग्रहणादणमपि बाधित्वा ठञेव भवति॥
बाल-मनोरमा
संवत्सराग्रहायणीभ्यां ठञ्च १४०४, ४।३।५०

संवत्सराग्रहायणीभ्यां ठञ्च। "देयमृण"मित्यर्थे सप्तम्यन्ता"दिति शेषः। सन्धिवेलादिगणे "संवत्सरात्फलपर्वणोः" इति पठितम्। तत्र फले देयर्णत्वेन विवक्षिते प्राप्तोऽण् अनेन ठञा बाध्यते।

तत्त्व-बोधिनी
संवत्सराग्रहायणीभ्यां ठञ्च ११०३, ४।३।५०

संवत्स। ठञ्चेति। "संवत्सराग्रहाणीभ्यां वे"त्येव सुवचम्। न च "वे"ति वक्तव्ये ठञ्ग्रहणं व्यर्थं, सन्धिवेलादिषु "संवत्सरात्फलापर्वणो"रिति पठ()ते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति काशिकादावुक्तमिति वाच्यं, तस्मै हितास्तद्धिता इत्यन्वर्थसंज्ञाकरणबलेनाऽत्राण्प्रत्ययो न भवेदिति वक्तुं शक्यत्वादिति नव्याः