पूर्वम्: ४।३।५०
अनन्तरम्: ४।३।५२
 
सूत्रम्
व्याहरति मृगः॥ ४।३।५१
काशिका-वृत्तिः
व्याहरति मृगः ४।३।५१

तत्र इत्येव, कालातिति च। कालवाचिनः सप्तमीसमर्थात् प्रातिपदिकात् व्याहरति मृगः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। निशायां व्याहरति मृगः वैशः, नैशिकः। प्रादोषः, प्रादोसिकः। मृगः इति किम्? निशायां व्याहरति उलूकः।
न्यासः
व्याहरति मृगः। , ४।३।५१

"नैशिकः,नैशः। प्रादोषिकः, प्रादोषः" इति। निशाप्रदोषाभ्यां ४।३।१४ठञ्। तेन मुक्ते पक्ष ऋत्वणेव भवति॥
बाल-मनोरमा
व्याहरति मृगः १४०५, ४।३।५१

व्याहरति मृगः। तत्र कालादित्येव। "देयमृणे" इति निवृत्तम्।

तत्त्व-बोधिनी
व्याहरति मृगः ११०४, ४।३।५१

नैशिक ति। "निशाप्रदोषाभ्यां चे"ति वा ठञ्।