पूर्वम्: ४।३।६१
अनन्तरम्: ४।३।६३
 
सूत्रम्
जिह्वामूलाङ्गुलेश्छः॥ ४।३।६२
काशिका-वृत्तिः
जिह्वामूलाङ्गुलेश् छः ४।३।६२

जिह्वामूलशब्दादङ्गुलिशब्दात् च छन्H प्रतयो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्।
लघु-सिद्धान्त-कौमुदी
जिह्वामूलाङ्गुलेश्छः १०९९, ४।३।६२

जिह्वामूलीयम्। अङ्गुलीयम्॥
न्यासः
जिह्वामूलाङ्गुलेश्छठः। , ४।३।६२

"यतोऽपवादः" इति।" शरीरवयवाच्च" ४।३।५५ इति प्राप्तस्य॥
बाल-मनोरमा
जिह्वामूलाङ्गलेश्छः १४२०, ४।३।६२

जिग्वामूलाङ्गुलेश्छः। "शरीरावयवाच्चे"ति यतोऽपवादः।