पूर्वम्: ४।३।६०
अनन्तरम्: ४।३।६२
 
सूत्रम्
ग्रामात् पर्यनुपूर्वात्॥ ४।३।६१
काशिका-वृत्तिः
ग्रामात् पर्यनुपूर्वात् ४।३।६१

अव्ययीभवातित्येव। ग्रामशब्दान्तादव्ययीभावात् परि अनु इत्येवं पूर्वात् ठञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। पारिग्रामिकः। आनुग्रामिकः।
न्यासः
ग्रामात्पर्यनुपूर्वात्। , ४।३।६१

"पारिग्रामिकम्" इति। "{ग्रामशब्दान्तादव्ययीभावात् परि--काशिका।}" ग्रामात् परि" इति। "अपरपरिबहिरञ्चवः पञ्चम्या" २।१।११ इत्यव्ययीभावः। "आनुग्रामिकम्िति। अत्रापि "अनुर्यत्समया" २।१।१४
बाल-मनोरमा
ग्रामात्पर्यनुपूर्वात् १४१९, ४।३।६१

ग्रामात्पर्यनुपूर्वात्। ठञ् स्यादिति। "अन्तःपूर्वपदा"दित्यतस्तदनुवृत्तेरिति भावः।