पूर्वम्: ४।३।६
अनन्तरम्: ४।३।८
 
सूत्रम्
ग्रामजनपदैकदेशादञ्ठञौ॥ ४।३।७
काशिका-वृत्तिः
ग्रामजनपद एकदेशादञ्ठञौ ४।३।७

दिक्पूर्वपदातित्येव। ग्रामएकदेशवाचिनो जनपदएकदेशवाचिनश्च प्रातिपदिकाद् दिक्पूर्वपदादर्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ। यतो ऽपवदौ। इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धः, पौर्वार्धिकाः। दाक्षिणार्धाः, दाक्षिणार्धिकाः।
न्यासः
ग्रामजनपदैकदेशादञ्ठञौ। , ४।३।७

"यतोऽपवादौ" इति। पूर्वेण प्राप्तस्य। "पौर्वार्धाः" इति।पूर्ववत्समासः। नन्वत्र पूर्वस्मिन्नर्द्धे ग्रामस्येति ग्राममपेक्षमाणस्यार्धशब्दस्यासामथ्र्यात् समासो नोपपद्यते? नैष दोषः; प्रधानमात्रार्द्धं भवति। प्रधानस्य सापेक्षस्यापि समासः-- इत्येतत् "उपमितं व्याघ्रादिभिः सामान्यप्रयोगे" २।१।५५ इत्यत्र ज्ञापितम्॥
बाल-मनोरमा
ग्रामजनपदैकदेशादञ्ठञौ १३५७, ४।३।७

ग्रामजनपद। ननु अञ् चेत्येतावतैव चकाराट्ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह--ठञ्ग्रहणमिति। ननु अञ् चेत्युक्तेऽपि चकाराट्ठञोऽनुकर्षः स्पष्ट एवेत्यत आह--अञ्चेत्युक्त इत्यादि।