पूर्वम्: ४।३।८४
अनन्तरम्: ४।३।८६
 
सूत्रम्
तद्गच्छति पथिदूतयोः॥ ४।३।८५
काशिका-वृत्तिः
तद् गच्छति पथिदूतयोः ४।३।८५

तदिति द्वितीयासमर्थाद् गच्छति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, यो ऽसौ गच्छति पन्थाश्चेत् स भवति दूतो वा। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा। माथुरः। तत्स्थेषु गच्छत्सु पन्था गच्छति इत्युच्यते। अथ वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोः इति किम्? स्रुघ्नं गच्छति सार्थः।
लघु-सिद्धान्त-कौमुदी
तद्गच्छति पथिदूतयोः ११०७, ४।३।८५

स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा॥
न्यासः
तद्गच्छति पथदूतयोः। , ४।३।८५

पथो निष्क्रियत्वाद्गमेः कत्र्तत्वं नोपपद्यत इत्याह-- "तत्स्थेषु" इत्यादि। पुरुषवृत्तिर्गमनं पथ्युपचर्यत इति दर्शयति। "अथ वा" इत्यादि। प्राप्तावत्र गमिर्वत्र्तते। अस्ति च प्रत्यक्षगम्यैव रुआउघ्नादीनां पथोऽस्यैवानन्तर्यलक्षणा प्राप्तिः॥
बाल-मनोरमा
तद्गच्छति पथिदूतयोः १४४४, ४।३।८५

तद्गच्छति पथिदूतयोः। गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्था दूतो वा इत्यर्थः।

तत्त्व-बोधिनी
तद्गच्छति पथिदूतयोः ११३१, ४।३।८५

तद्गच्छति। द्वितीयान्ताद्गच्छतीत्यर्थे प्रत्ययः स्यात्स चेद्गन्ता पन्था दूतो वेत्यर्थः। तत्र साध्वसिश्छनत्ति, काष्ठानि पचन्तीत्यादाविव करणस्य स्वातन्त्र्यविवक्षायां पन्थाः कर्ता।