पूर्वम्: ४।३।८५
अनन्तरम्: ४।३।८७
 
सूत्रम्
अभिनिष्क्रामति द्वारम्॥ ४।३।८६
काशिका-वृत्तिः
अभिनिष्क्रामति द्वारम् ४।३।८६

तदित्येव। तदिति द्वितीयासमर्थादभिनिष्क्रामति इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यतभिनिष्क्रामति द्वारं चेद् तद् भवति। आभिमुख्येन निष्क्रामति अभिनिष्क्रामति। स्रुघ्नम् अभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नम्। माथुरम्। राष्ट्रियम्। द्वारम् अभिनिष्क्रमणक्रियायां करणं प्रसिद्धं, तदिह स्वातन्त्र्येण विवक्ष्यते, यथा साध्वसिश्छिनत्ति इति। द्वारम् इति किम्? स्रुघ्नम् अभिनिष्क्रामति पुरुषः।
लघु-सिद्धान्त-कौमुदी
अभिनिष्क्रामति द्वारम् ११०८, ४।३।८६

स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्॥
न्यासः
अभिनिष्क्रमति द्वारम्। , ४।३।८६

कथं पुनः करणत्वेन प्रसिद्धं द्वारं स्वातन्त्रेणैव विवक्ष्यते?इत्याह-- "यथा" इत्यादि। यथा च्छेदनक्रियायामसिः करणत्वेन प्रसिद्धौऽपि स्वातन्त्र्येण विवक्ष्यते।ननु चेतनावतोऽभिनिष्क्रमणं भवति, चेतनावता प्रयुक्तस्य वा-- देवदत्तोऽभिनिष्क्रामतीति, न च द्वारं चेतनावता प्रयुक्तम्, तस्मान्नोपपद्यते तस्याभिनिष्क्रमणम्? नैष दोषः; अचेतनेष्वप्यभिनिष्क्रामतीति व्यवहारो दृश्यते, तद्यथा अनेन गुहामुखेन वायुरभिनिष्क्रामतीति। निष्क्रीयत्वात् तर्हि नोपपद्यते? तत्स्थेषु निष्क्रामत्सु द्वारमभिनिष्क्रमतीत्युपचर्यत इत्यदोषः॥
तत्त्व-बोधिनी
अभिनिष्क्रामति द्वारम् ११३२, ४।३।८६

अभिनिष्क्रमिति। द्वितीयान्तात्प्रत्ययः स्याद्यन्निष्क्रामति तच्चेद्द्वारमित्यर्थः। रुआऔग्घ्नं कन्यकुब्जद्वारमिति। रुआउग्घ्नाभिमुखनिष्क्रममे करणीभूतमिति फलितोऽर्थः। पूर्ववत्करणस्य कर्तृत्वम्।