पूर्वम्: ४।३।८
अनन्तरम्: ४।३।१०
 
सूत्रम्
अ साम्प्रतिके॥ ४।३।९
काशिका-वृत्तिः
अ साम्प्रतिके ४।३।९

अकारः प्रत्ययो भवति मध्यशब्दात् साम्प्रतिके जातादौ प्रत्ययार्थे। मस्य अपवादः। साम्प्रतिकं न्याय्यं, युक्तम् उचितं, सममुच्यते। नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम्। नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः। मध्या स्त्री।
न्यासः
अ साम्प्रतिके। , ४।३।९

न्याय्यं युक्तमित्यादिभिः पर्यायैः साम्प्रतिकशब्दार्थमाचष्टे--"{साम्प्रतिकम्--न्याय्यम्, युक्तम्, उचितम्, सममुच्यते--काशिका,पदमञ्जरी च} साम्प्रतिकं न्याय्यमुच्यते" (इति)। तथा हि प्रयोगो दृश्यते न बाह्रं प्राप्तमित्येवं वर्त्तितव्यमसाम्प्रतमिति। अत्र न्याय्यः प्रतिषेधः प्रतीयते। साम्प्रतमेव साम्प्रतिकम्। विनयादेराकृतिगणत्वात् "विनयादिभ्यश्च" ५।४।३४ इति ठक्॥
बाल-मनोरमा
अ सांप्रतिके १३५९, ४।३।९

अ सांप्रतिके। "अ" इति लुप्तप्रथमाकम्। मध्यादित्यनुवर्तते। तदाह--मध्यशब्दादित्यादि। "संप्रती"त्यव्ययम् उत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीये "अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रतियज्ञो यत्पञ्चरात्रः" इत्यत्र तथा दर्शनात्। पञ्चरात्रो न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः। सम्प्रतिशब्दात्स्वार्थे विनयादित्वाट्ठकि साम्प्रतिकम्। प्रज्ञादित्वात्स्वार्थ अणि तु साम्प्रतमित्यपि भवति। "एतर्हि सम्प्रती"ति कोशादिदानीमित्यर्थेऽपि। प्रकृते तु साम्यं विवक्षितम्।

तत्त्व-बोधिनी
अ सांप्रतिके १०७०, ४।३।९

अ सांप्रतिके। "सप्रती"त्यव्ययं न्याय्ये वर्तते, "अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रः स वा एष संप्रति यज्ञो यत्पञ्चरात्रः"इत्यत्र तथा दर्शनात्। न न्यूनो नातिरिक्तः---सम इत्यर्थः। इदानीमित्यर्थे तु प्रसिद्धमेव, "एतर्हि संप्रतीदानीम्ित्यमरात्। ततः प्रज्ञादित्वात्स्वार्थेऽण्, विनयादित्वात्स्वार्थे ठगपि। तेन सांप्रतं सांप्रतिकमिति पर्यायौ। उत्कर्षेत्यादि। न्याय्ये विद्यमान एव संप्रतिशब्दोऽत्र गृह्रते इति भावः।