पूर्वम्: ४।३।९
अनन्तरम्: ४।३।११
 
सूत्रम्
द्वीपादनुसमुद्रं यञ्॥ ४।३।१०
काशिका-वृत्तिः
द्वीपादनुसमुद्रं यञ् ४।३।१०

समुद्रसमीपे यो द्वीपः, तस्माद् यञ् प्रत्ययो भवति शैषिकः। कच्छादिपाठातणो, मनुष्यवुञः चापवादः। द्वैप्यम्। द्वैप्यं भवन्तो ऽनुचरन्ति चक्रम्। अनुसमुद्रम् इति किम्? द्वैपकम्। द्वैपमन्यत्।
न्यासः
द्वीपादनुसमुद्रं यञ्। , ४।३।१०

"अनुसमुद्रम्" इति। समुद्रं समयाऽनुसमुद्रम्। "अनुर्यत्समया" २।१।१४ इत्यव्ययीभावः। "अणो मनुष्यवुञश्चापवादः" इति। "कच्छादिभ्यश्च" ४।२।१३२ इति प्राप्तस्याणः। "मनुष्यतत्स्थयोर्वुञ्" ४।२।१३३ इति प्राप्तस्य वुञः॥
बाल-मनोरमा
द्वीपादनुसमुद्रं यञ् १३६०, ४।३।१०

द्वीपादनु। "अनुसमुद्र"मिति सामीप्ये अव्ययीभावः। अनुसमुद्रमिति सप्तम्यन्तम्, विद्यमानादित्यध्याहार्यम्। तदाह--समुद्रस्य समीपे इति। द्वैप्येति। "यञश्चे"ति ङीप् तु न, "अनपत्याधिकारस्थान्ने"ति तन्निषेधात्।

तत्त्व-बोधिनी
द्वीपादनुसमुद्रं यञ् १०७१, ४।३।१०

द्वीपादनु। समुद्रं समया अनुसमुद्रम्। "अनुर्यत्समया"इत्यव्ययीभावः। सप्तम्यन्तं चेदम्, विद्यमानक्रियाद्वारा द्वीपविशेषणमित्याशयेनाह---समुद्रसमीपे यो द्वीप इति। कच्छाद्यणो मनुष्यवुञश्चापवादोऽयम्। अनुसमुद्रं किं()। द्वैपमन्यत्। कच्छाद्यण्। द्वैपको मनुष्यः। "मनुष्यतत्स्थो"रिति वुञ्। द्वैप्येति। "यञश्चे"ति ङीब्न भवति, "अपत्याधिकारस्थादेव यञो ङी"बिति प्रागेवोक्तत्वात्।