पूर्वम्: ४।३।९०
अनन्तरम्: ४।३।९२
 
सूत्रम्
आयुधजीविभ्यश्छः पर्वते॥ ४।३।९१
काशिका-वृत्तिः
आयुधजीविभ्यश् छः पर्वते ४।३।९१

सो ऽस्य अभिजनः इति वर्तते। आयुधजीविभ्यः इति तादर्थ्ये चतुर्थी, पर्वते इति प्रकृतिविशेषणम्। पर्वतवाचिनः प्रथमासमर्थादभिजनादस्य इति षष्ठ्यर्थे छन्H प्रत्ययो भवति। आयुधजीविभ्यः आयुधजीव्यर्थम् आयुधजीविनो ऽभिधातुं प्रत्ययो भवति इत्यर्थः। हृद्गोलः पर्वतो ऽभिजनः एषाम् आयुधजीविनां हृद्गोलीयाः। अन्धकवर्तीयाः। रोहितगिरीयाः। आयुधजीविभ्यः इति किम्? ऋक्षोदः पर्वतो ऽभिजनः एशां ब्रह्मणानाम् आर्क्षोदा ब्राह्मणाः। पर्वते इति किम्? सांकाश्यका आयुधजीविनः।
न्यासः
आयुधजीविभ्यश्छः पर्वते। , ४।३।९१

"आयुधजीविभ्यः" इति। तादभ्य चतुर्थीति पञ्चमीं निराकरोति। यदि ह्रेषां पञ्चमी स्यात्, आयुधजीविभ्य एव पर्वतेऽभिधेये छो भवतीत्येष सूत्रार्थः स्यात्, न चेष्यते; तस्मात् एवैषा चतुर्थी, न पञ्चमीति। "साङ्काश्यकाः" इति। "धन्वयोपधाद्()वञ्" ४।२।१२०
बाल-मनोरमा
आयुधज्ञीविभ्यश्चः पर्वते १४५०, ४।३।९१

आयुधज्ञीविभ्यः। "पर्वता"दिति पाठान्तरम्। अभिजनशब्दादिति। अबिजनदेशवाचिन इत्यर्थः। "आयुधजीविनोऽभिधातु"मिति शेषः। सूत्रे "क्रियार्थोपपदस्ये"ति चतुर्थी। ह्मद्गोल इति। पर्वतविशेषोऽयम्। ऋक्षोद इति। अयमपि पर्वतविशेषः।

तत्त्व-बोधिनी
आयुधजीविभ्यश्छः पर्वते ११३७, ४।३।९१

आयुधजीविभ्यः। तादर्थ्ये एषा चतुर्थी। आयुधजीविभ्यः=आयुधजीब्यर्थम्, आयुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः। सोऽस्याभिजनः"इत्यनुवर्तते। पर्वत इति प्रकृतिविशेषणं, तदाह---पर्वतवाचिन इत्यादि। पर्वत इति किम्()। साङ्काश्यका आयुधजीविनः। "योपधा"दिति वुञ्। शण्डिकादिभ्यो ञ्यः। शण्डिका सर्वसेन शकेत्यादि।