पूर्वम्: ४।३।९१
अनन्तरम्: ४।३।९३
 
सूत्रम्
शण्डिकादिभ्यो ञ्यः॥ ४।३।९२
काशिका-वृत्तिः
शण्दिकाऽदिभ्यो ञ्यः ४।३।९२

शण्डिक इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः ञ्यः प्रत्ययो भवति सो ऽस्य अभिजनः इत्येतस्मिन् विषये। अणादेरपवादः। शाण्डिक्यः। सार्वसेन्यः। शण्डिक। सर्वसेन। सर्वकेश। शक। सट। रक। शङ्ख। बोध। शण्डिकादिः।
न्यासः
शण्डिकादिभ्यो ञ्यः। , ४।३।९२

"अणादेरपवादः" इति। आदिशब्देन छादेः। अत्र ये शण्डिकादीन् पर्वातनाचक्षते तेषां मतेन पूर्वसूत्रेण प्राप्तस्य छस्यापवादः। ये तु जनपदशब्दाः, तेषां "अवृद्धादपि बहुवचनविषयात्" ४।२।१२४ इति प्राप्तस्य वुञः। शण्डिकशब्दात् "कोपधादण्" ४।२।१३१ इति प्राप्तस्याणः॥
बाल-मनोरमा
शाण्डिकादिभ्यो ञ्यः १४५१, ४।३।९२

शाण्डिकादिभ्यो ञ्यः। "सोऽभिजन इत्यर्थे प्रथमान्तेभ्य" इति शेषः।