पूर्वम्: ४।३।९७
अनन्तरम्: ४।३।९९
 
सूत्रम्
वासुदेवार्जुनाभ्यां वुन्॥ ४।३।९८
काशिका-वृत्तिः
वासुदेवार्जुनाभ्यां वुन् ४।३।९८

वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सो ऽस्य भक्तिः इत्येतस्मिन् विषये। छाणोरपवादः। वासुदेवो भक्तिरस्य वासुदेवकः। अर्जुनकः। ननु च वासुदेवशब्दाद् गोत्रक्षत्रियाऽख्येभ्यः इति वुञस्त्येव, न च अत्र वुन्वुञोर् विशेषो विद्यते, किमर्थं वासुदेवग्रहणम्? संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या। अल्पाच्तर २।२।३४, अजाद्यदन्तम् २।२।३३ इति च अर्जुनशब्दस्य पूर्वनिपातम् अकुर्वन् ज्ञापयति अभ्यर्हितं पूर्वम् निपतति इति।
न्यासः
वासुदेवार्जुनाभ्यां वुन्। , ४।३।९८

वासुदेवशब्दाद्()वृद्धाच्छस्यापवादः। अर्जुनशब्दादौत्सर्गिकस्याणः। ननु चार्जुनशब्द क्षत्त्रियाख्यः,तस्मादुत्तरसूत्रेण प्राप्तस्य वुञोऽपवादो युक्तः? एवं मन्यते-- बहुलग्रहणं तत्र क्रियते, तेनार्जुनशब्दाद्()नुञ्प्रत्ययस्य प्राप्तिरेव नास्ति, तस्मादस्मादणेव स्यात्, अतस्तदपवादो न्याय्यः। "ननु च" इत्यादि चोद्यम्। स्यादेतत्--- वुञ्वुनोर्विशेषोऽस्ति, अतो वासुदेवशब्दाद्()वुन् विधीयते? इत्याह-- "न चात्र" इत्यादि। वासुदेवशब्दस्य च वुञि वुनि वा सति नास्ति कश्चिद्विशेष इति। तथा ह्रुभयत्र तदेवरूपम्, स एव स्वरः। योऽपि वुञि सति पुंवद्भावप्रतिषेधः "वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे" ६।३।३८ इति,स वुन्यपि लभ्यत एव "न कोपधायाः" ६।३।३६ इति। "संज्ञेषः" इत्यादिना, यदुक्तम्-- "ननु च वासुदेवशब्दाद्()गोत्रक्षत्रियाख्येभ्यः" ४।३।९९ इति वुञस्त्येव" इति, तन्निराकरोति। गोत्रक्षत्त्रियाख्येभ्यो वुञ् विधीयते। न च वासुदेवशब्दो गोत्राख्यं प्रातिपदिकम्, नापि क्षत्त्रियाख्यम्, तत्कुतो इत्यनेन "अल्पाच्तरम्" २।२।३४ इत्यनेन वार्जुशब्दस्य पूर्वनिपातमकुर्वतैतद्विज्ञापितम्--अभ्यर्हितं पूर्वं निपतति। तेन मातापितरौ, श्रद्धमेधे, दीक्षातपसी-- इत्यत्र शास्त्रादेवाभ्यार्हितस्य पूर्वनिपातः सिद्धो भवति। अभ्यर्हितत्वं तु वासुदेवशब्दस्य देवताविशेषत्वात्॥
बाल-मनोरमा
वासुदेवार्जुनाभ्यां वुन् १४५७, ४।३।९८

वासुदेव। "सोऽस्य भक्ति"रित्येव। वासुदेवक इति। वासुदेवो भक्तिरस्येति विग्रहः। एवमर्जुनकः। ननु वसुदेवस्यापत्य"मित्यर्थे "ऋष्यन्धकवृष्णिकुरुभ्यश्चे"ति वाष्र्णेयत्वादणि वासुदेवशब्दात् "गोत्रक्षत्रियाख्येभ्यो बहुलं वु"ञिति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम्, अणन्तो वासुदेवशब्दोऽत्र न गृह्रते किंतु यस्मिन्समस्तं वसति, यो वा समस्ते वसति स वासुः स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः। उक्तच भाष्ये-"नैषा क्षत्रियाख्या, संज्ञैषा तत्रभवतः" इति।

तत्त्व-बोधिनी
वासुदेवार्जुनाभ्यां वुन् ११३९, ४।३।९८

वासुदेवार्जुनाभ्यां बुन्। छाऽणोरपवादः। "अजाद्यदन्तम्", "अल्पाच्तर"मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तस्याऽकरणं "सर्वतोऽभ्यर्हितं पूर्वं निपतती"ति ज्ञापनार्थम्। ननु वसुदेवस्यापत्यमित्यर्थे "ऋष्यन्धके"त्यणि वासुदेवशब्दो निष्पन्नः। तथा च तत्र "गोत्रक्षत्रियाख्येभ्यः"इत्युत्तरसूत्रेण वुञेवाऽस्तु , किमनेन वुना। न ह्रत्र वृद्धौ विशेष, प्रागेव वृद्धत्वात्। न च "वृद्धिनिमित्तस्ये"ति पुंवद्भावनिषेधो दोषः स्यादिति वाच्यं, वुन्यपि "न कोपधायाः इति नि,#एधस्येष्यमाणत्वात्। न वा स्वरे विशेषः, "ञ्नित्यादिर्नित्य"मिति तुल्यस्वरत्वात्। नापि "अभ्यर्हितं पूर्व"मिति ज्ञापनमेव तत्फलमिति वाच्यं, तथात्वे हि पूर्वनिपातप्रकरणे "अभ्यर्हित"मित्येव लाघवात्कुर्यादिति चेत्। अत्र भाष्यं---"संज्ञैषा भगवतः"इति। अयं भावः---"सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते।"इति स्मृतेः परमात्मा इह वासुदेवः। सर्वत्रासौ वसति, सर्वमत्र वसतीति वा व्युत्पत्त्या वासुः। बाहुलकादुण्। वासश्चासौ देवश्चेति विग्रङः। तथा च नेयं गोत्राख्या, नापि क्षत्रियाख्येति युक्त एव विन्विधिः। "भ्यर्हितं पूर्व"मिति तु प्रसङ्गाज्ज्ञापितं। तदप्यनित्यं "()आयुवमघोना"मित्यादिलिङ्गादित्यवधेयम्।