पूर्वम्: ४।४।१०८
अनन्तरम्: ४।४।११०
 
सूत्रम्
भवे छन्दसि॥ ४।४।१०९
काशिका-वृत्तिः
भवे छन्दसि ४।४।११०

तत्र इत्येव। स्प्तमीसमर्थात् भव इत्येतस्मिन्नर्थे छन्दसि विषये यत् प्रत्ययो भवति। अणादीनां घादीनां चापवादः। सति दर्शने ते ऽपि भवन्ति, सर्वविधीनाम् छन्दसि व्यभिचारात्। नमो मेध्याय च विद्युत्याय च नमः। आपादपरिसमाप्तेः छन्दो ऽधिकारः। भवाधिकारश्च समुद्राभ्राद् धः ४।४।११७ इति यावत्।
न्यासः
भवे छन्दसि। , ४।४।१०९

"अणादीनां घादीनाञ्चापवादः" इति। "तत्र भवः" ४।३।५३ इति प्राप्तानाम्। यद्येवम्, यता बाधितत्वाच्छन्दसि तेषामभावः स्यात्, ततश्च मुञ्जावत्यं मौञ्जावतं वेत्येवमादि न सिध्यति? इत्याह--- "सति दर्शने" इत्यादि। कथं पुनरेवं लभ्यते? इत्याह---"सर्वविधीनाम्" इत्यादि। सर्वविधिव्यभिचारस्तु "बहुलं छन्दसि" ३।२।८८ इति बहुलग्रहणाल्लभ्यते। मुञ्जावान् नाम पर्वतः, तत्र भवोऽसौ मौञ्जावतः॥