पूर्वम्: ४।४।११६
अनन्तरम्: ४।४।११८
 
सूत्रम्
समुद्राभ्राद्घः॥ ४।४।११७
काशिका-वृत्तिः
समुद्राभ्राद् घः ४।४।११८

समुद्रशब्दातभ्रशब्दाच् च घः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे। यतो ऽपवादः। समुद्रिया नदीनाम्। अभ्रियस्येव घोषाः। अभ्र। शब्दस्य अपूर्वनिपातः, तस्य लक्षणस्य व्यभिचारित्वात्।
न्यासः
समुद्राभ्राद्घः। , ४।४।११७

ननु च "अजाद्यन्तम्" २।२।३३ "अल्पाच्तरम्" २।२।३४ इत्यभ्रशब्दस्य पूर्वनिपातेन भवितव्यम्, तत्कथमपूर्वनिपातः? इत्याह---- "अम्रशब्दस्य" इत्यादि॥