पूर्वम्: ४।४।११
अनन्तरम्: ४।४।१३
 
सूत्रम्
वेतनादिभ्यो जीवति॥ ४।४।१२
काशिका-वृत्तिः
वेतनाऽदिभ्यो जीवति ४।४।१२

तेन इति तृतीयासमर्थेभ्यः वेतनादिभ्यः शब्देभ्यः जीवति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। वेतनेन जीवति वैतनिकः कर्मकरः। धनुर्दण्डग्रहणम् अत्र सङ्घातविगृहीतार्थम्। धनुर्दण्डिकः। धानुष्कः। दाण्डिकः। वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषन। उपस्ति। सुख। शय्या। शक्ति। उपनिषत्। उपवेष। स्रक्। पाद। उपस्थान। वेतनादिः।
न्यासः
वेतनादिभ्यो जीवति। , ४।४।१२

बाल-मनोरमा
वेतनादिभ्यो जीवति १५४१, ४।४।१२

वेतनादिभ्यो जीवति। "जीवतीत्यर्थे तृतीयान्तेभ्यष्ठ"गिति शेषः। वैतनिक इति। वेतनेन जीवतीत्यर्थः। धानुष्क इति। धनुषा जीवतीत्यर्थः। उसन्तात्परत्वाट्ठस्य कः। "इणः षः" इति षत्वम्।