पूर्वम्: ४।४।१२
अनन्तरम्: ४।४।१४
 
सूत्रम्
वस्नक्रयविक्रयाट्ठन्॥ ४।४।१३
काशिका-वृत्तिः
वस्नक्रयविक्रयाट् ठन् ४।४।१३

वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति जीवति इत्येतस्मिन् विषये। ठको ऽपवादः। वस्नेन जीवति वस्निकः। क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्। क्रयविक्रयीकः। क्रयिकः। विक्रयिकः।
न्यासः
वस्नक्रयविक्रयाटठन्। , ४।४।१३

"क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्" इति। इह तन्त्रेण क्रयविक्रयशब्दावुच्चारितौ;तत्रैकस्य सङ्घातार्थं ग्रहणम्, अपरस्य तु विगृहीतार्थं वेदितव्यम्॥
बाल-मनोरमा
वस्नक्रयविक्रयाट्ठन् १५४२, ४।४।१३

वस्नक्रयविक्रयाट्ठन्। जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यष्ठन् स्यादित्यर्थः। सङ्घातविगृहीतार्थमिति। व्याख्यानादिति भावः।