पूर्वम्: ४।४।१२८
अनन्तरम्: ४।४।१३०
 
सूत्रम्
ओजसोऽहनि यत्खौ॥ ४।४।१२९
काशिका-वृत्तिः
ओजसो ऽहनि यत्खौ ४।४।१३०

मत्वर्थे इत्येव। ओजःशदान् मत्वयर्थे यत्खौ प्रत्ययौ भवतो ऽहन्यभिधेये। ओजस्यमहः। ओजसीनमहः।
न्यासः
ओजसोऽहनि यत्खौ। , ४।४।१२९

असन्तत्वात् "अस्मायामेधारुआजो विनिः" ५।२।१२० इति विनिप्रत्यये प्राप्ते मतुपोऽपवादैः सह समावेशात् मतुपि यत्खौ विधीयेते। अथ यद्()ग्रहणं किमर्थम्, ननु "ओजसोऽहनि ख च" इत्येवोच्येत, चकारेण यथाविहिते प्रत्यये विज्ञायमाने यदिति च भविष्यति? नैवं शक्यम्; चकारेण हि सन्देहः स्यात्-- किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते? अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कत्र्तव्यम्॥