पूर्वम्: ४।४।१२६
अनन्तरम्: ४।४।१२८
 
सूत्रम्
मत्वर्थे मासतन्वोः॥ ४।४।१२७
काशिका-वृत्तिः
मत्वर्हे मासतन्वोः ४।४।१२८

यस्मिन्नर्थे मतुब् विहितः, तस्मिन्श् छन्दसि विषये यत् प्रत्ययो भवति मासतन्वोः प्रत्ययार्थविशेषणयोः। प्रथमासमर्थादस्त्युपाधिकात् षष्ठ्यार्थे सप्तम्यर्थे च यत्प्रत्ययो भवति। मत्वर्थीयानाम् अपवादः। नभांसि विद्यन्ते अस्मिन् मासे अभस्यो मासः। सहस्यः। तपस्यः। मधव्यः। नभःशदो ऽभ्रेषु वर्तते। तन्वा खल्वपि ओजो ऽस्यां विद्यते ओजस्या तनूः। रक्षस्या तनूः। मासतन्वोः इति किम्? मधुमता पात्रेण चरति मासतन्वोरनन्तरार्थे वा। मध्वस्मिन्नस्ति मध्वस्मिन्ननन्तरम् इति वा मध्व्यो मासः। लुगकारेकाररेफाश्च वक्तव्याः। लुक् तावत् तपश्च तपस्यश्च। नभश्च नभस्यश्च। सहश्च सहस्यश्च। नपुंसकलिङ्गं छन्दसत्वात्। अकारः इषो मासः। ऊर्जो मासः। इकारः शुचिर्मासः। रेफः शुक्रो मासः।
न्यासः
मत्वर्थे मासतन्वोः। , ४।४।१२७

मत्वर्थे मासतन्वोरिति प्रत्ययार्थविशेषणम्। मत्वर्थग्रहणादेव प्रथमा समर्थविभक्तिरस्त्युपाधिका लभ्यते? इत्याह-- "प्रथमसमर्थादस्त्युपाधिकात्" इति। "{अनन्तरार्थेव वा-- काशिका} अनन्तरार्थे च" इति। न केवलं मत्वर्थ एव त्ययो वक्तव्यः। "ननु च तप) प्रभृतीनां प्रत्ययार्थमासादिवचनानामभिधेयलिङ्गवचनानि भवन्तीति पुंल्लिङ्गता प्राप्वोति, तस्याञ्च सत्यां "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घेण भवितव्यम्; तत्कथं तपश्च सहश्च नभश्चेति प्रयोगः? इत्यत आह--"नपुंसकलिङ्गं छान्दसत्वात्" इति। अयं हि च्छान्दसः प्रयोगः। तत्रेति पुंल्लिङ्गेऽभिधेये नपुंसकलिङ्गमुपपद्यते। "व्यत्ययो बहुलम्" ३।१।८५ इति लिङ्गव्यत्ययस्य च्छन्दसि विधानात्। इडस्मिन्मासेऽस्तीति "इषः"। ऊर्घस्मिन् मासेऽस्तीति "ऊर्जःर"। शुगस्मिन् मासेऽस्तीति "शूचिः" शुग् वास्मिन् मासेऽस्तीति "शुक्रः"। "चोः कुः" ८।२।३० इति कुत्वम्। अर्थग्रहणं किमर्थम्, यावता "मतौ छः सूक्तसाम्नोः" (५२।५९) इत्यत्र यथा "मतौ" इत्युच्यमानो मत्वर्थे प्रत्यय उच्यते, तथेहापि लभ्यते, तस्मात् "मतौ" इत्येवं कस्मान्नोक्तम्? सत्यमेतत्; विस्पष्टार्थमर्थग्रहणम्॥