पूर्वम्: ४।४।१३०
अनन्तरम्: ४।४।१३२
 
सूत्रम्
ख च॥ ४।४।१३१
काशिका-वृत्तिः
ख च ४।४।१३२

वेशोयशाऽदेर् भगान्तात् प्रातिपदिकात् मत्वर्थे खः प्रत्ययो भवति। योगविभागो यथासङ्ख्यनिरासार्थः उत्तरार्थश्च। चकारात् यत्। वेशोभगीनः, वेशोभग्यः। यशोभगीनः, यशोभग्यः।
न्यासः
ख च। , ४।४।१३१

"योगविभागः" इत्यादि। यदि पूर्वसूत्र एव खग्रहणं क्रियते; द्वे प्रकृती प्रत्ययावपि द्वावेवेति सामथ्र्याद्यथासंख्यं प्रसज्येत। तस्मात् तन्निरासार्थो योगविभागः।ननु "यथासंख्यमनुदेशः समानाम्" (१।३।१०) इत्यत्र इह कस्मान्न भवति---"वेशोयशञादेर्भगाद्यल् ख च" इति दर्शयितवा स्वरितेन लिङ्गेन यथासंख्यमित्युक्तम्? तदेकयोगतामभ्युपेत्य। भवतु नामैकयोगः, तथापि यथासंख्यं न भवतीति दर्शनार्थम्, तत कुतो यथासंख्य निरासार्थो योगविभाग? अत आह--- "उत्तरार्थश्च" इति॥