पूर्वम्: ४।४।१३१
अनन्तरम्: ४।४।१३३
 
सूत्रम्
पूर्वैः कृतमिनियौ च॥ ४।४।१३२
काशिका-वृत्तिः
पूर्वैः कृतम् इनयौ च ४।४।१३३

मत्वर्थे इति निवृत्तम्। निर्देशादेव समर्थविभक्तिः। पूर्वशब्दात् तृतीयासमर्थात् कृतम् इत्येतस्मिन्नर्थे इन य इत्येतौ प्रत्ययौ भवतः। चकारात् ख च। गम्भीरेभिः प्रथिभिः पूर्विणेभिः। पूर्व्यैः। पूर्वीणैः। पूर्वैः इति बहुवचनान् तेन पूर्वपुरुषाः उच्यन्ते। तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा।
न्यासः
पूर्वैः कृतमिनयौ च। , ४।४।१३२

"पूर्वः कृत मिनयौ च" इति। ख एव यथा स्यात्, यन्मा भूत्। "पूर्वैरिति बहुवचनान्तेन " इत्यादि। "पथिभिः पूर्वैःर" इत्येवमादिभिर्वेदवाक्यैः पूर्वपुरुषकृतत्वेनयदा प्रशंसां प्रतिपादयितुं निष्ठा साध्वेव शक्यते विज्ञातुम्, तदा पूर्वपुरुषाभिधायिनः पूर्वशब्दात् प्रत्यय उपपद्यते। तस्मात् पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा अभिधीयन्ते। छन्दसामर्थपरत्वाद्()बहुवचनस्य।तेन पूर्वपुरुषाणां पन्था आस्थितः सम्पद्यत इति दर्शयितुमाह-------"तत्कृताः पन्थानःर" इति॥