पूर्वम्: ४।४।१३३
अनन्तरम्: ४।४।१३५
 
सूत्रम्
सहस्रेण संमितौ घः॥ ४।४।१३४
काशिका-वृत्तिः
सहस्रेण संमितौ घः ४।४।१३५

निर्देशादेव समर्थविभक्तिअः। सहस्रशब्दात् तृतीयासमर्थात् सम्मित इत्येतस्मिन्नर्थे घः प्रत्ययो भवति। सम्मितः तुल्यः, सदृशः। अयम ग्निः सहस्रियः। सहस्रतुल्यः इत्यर्थः। केचित् तु समितौ इति पठन्ति। तत्र अपि समित्या सम्मितः एव लक्षयितव्यः। तत्र छन्दसि प्रयोगदर्शनात्।