पूर्वम्: ४।४।२६
अनन्तरम्: ४।४।२८
 
सूत्रम्
ओजस्सहोऽम्भसा वर्तते॥ ४।४।२७
काशिका-वृत्तिः
ओजःसहो ऽम्भसा वर्तते ४।४।२७

ओजस् सहसम्भसित्येतेभ्यः तृतीयासमर्थेभ्यो वर्तते इत्यर्थे ठक् प्रत्ययो भवति। ओजसा वर्तते औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः।
न्यासः
ओजः सहोम्भसा वर्तते। , ४।४।२७

"वत्र्तते" इति। चेष्टत इत्यर्थः। "तत्प्रक्रियाविशेषणम्" इत्यादि। अनेन हि वृत्त्यर्थस्य कत्र्तव्यतामाचष्ट। वत्र्तत इति वत्र्तमानं करोत्यर्थः। स हि वृत्त्यर्थः कत्र्तव्यतया सम्बध्यमानः कर्म सम्पद्यते। तत्सामानादिकरण्याच्च तद्विशेषणमपि कत्र्तव्यतया युज्यते। तदपि कर्म च प्रसक्तम्। क्रियाविशेषणस्यैवाकर्मकेऽपि धातौ कर्मत्वमाख्यातम्। तदित्यनेन द्वितीयासमर्थविभक्तौ लब्धायामपि द्वितीयान्ता इह प्रकृतयो निर्दिष्टा विस्पष्टार्थम्; अन्यथा प्रत्ययविधौ पञ्चमी न्याय्येति तदन्ता एव निर्दिश्येरन्॥
बाल-मनोरमा
ओजःसहोऽम्भसा वर्तते १५५६, ४।४।२७

ओजःसहो। वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस्, अम्भस्--एभ्यः तृतीयान्तेभ्यष्ठक् स्यादित्यर्थः। औजसिक इति। ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः। साहसिक इति। सहसा=प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः। आम्भसिक इति। अम्भसा हेतुना संचारे व्याप्रियत इत्यर्थः।