पूर्वम्: ४।४।२७
अनन्तरम्: ४।४।२९
 
सूत्रम्
तत् प्रत्यनुपूर्वमीपलोमकूलम्॥ ४।४।२८
काशिका-वृत्तिः
तत् प्रत्यनुपूर्वम् ईपलोमकूलम् ४।४।२८

तदिति द्वितीयासमर्थविभक्तिः। प्रति अनु इत्येवं पूर्वेभ्यः ईपलोमकूलशब्देभ्यो द्वितियासमर्थेभ्यो वर्तते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। ननु च वृतिरकर्मकः, तस्य कथं कर्मणा सम्बन्धः? क्रियाविश्षणम् अकर्मकाणाम् अपि कर्म भवति। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। आनुलोमिकः। प्रातिकूलिकः। आनुकूलिकः।
न्यासः
तत्प्रत्यनुपूर्वमीपलोमकूलम्। , ४।४।२८

"प्रातीपिकः" इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। "ऋक्पूरब्धूःपथामानक्षे" ५।४।७४ इत्यकारः समासान्तः। एवञ्च "द्व्यन्तरुपसर्गेभ्योऽप ईत्" ६।३।९६ इतीत्त्वम्। अपरत्र तु "ऊदनोर्देशे" ६।३।९७ इति देशादन्यत्रोत्त्वमेव, ततष्ठक्। "{प्रातिलोमिकः, आनलोमिकः--काशिका,पदमञ्जरी च।} प्रातिलोमिकम्, आनुलोमिकम्" इति। प्रतिगतानि लोमान्यस्य , अनुगतानि लोमान्यस्येति बहुव्रीहिः। "अच् प्रत्यनु" ५।४।७५ इत्यादिनाऽच् समासान्तः॥
बाल-मनोरमा
तत्प्रत्यनुपूर्वमीपलोमकूलम् १५५७, ४।४।२८

तत्प्रत्यनुपूर्व। "त"दिति द्वितीयान्तानुकरणम्। प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईषलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः। ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात्कथं द्वितीयेत्यत आह--क्रियाविशेषणत्वादिति। इदंच कारकनिरूपणे निरूपितम्। "क्रियाविशेषणानां प्रतमान्तत्वमेवे"ति तु शब्देन्दुशेखरे प्रतीपमिति। प्रतिगता आपो यस्मिन्निति बहुव्रीहिः। "ऋक्पूः" इत्यकारः समासान्तः। द्व्यन्तरूपसर्गेभ्योऽप ई"दिति ईत्त्वम्। अनुगता आपो यस्मिन् तदन्वीपम्। "ऊदनोर्देशे" इत्यूत्त्वं तु न, अदेशत्वात्। प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ। अवयवार्थेषु तु नाभिनिवेष्टव्यम्।

तत्त्व-बोधिनी
तत्प्रत्यनुपूर्वमीपलोमकूलम् १२०४, ४।४।२८

तत्प्रत्यनु। वृतेरकर्मकत्वात्कथं तस्य द्वितीयान्ते नप्रतीपमित्यादिना सम्बन्ध इत्याशङ्कायामाह---क्रियाविशेषणत्वादिति। प्रतीपमिति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। "ऋक्पूः"इत्यकारः समासान्तः। "व्द्यन्तरूपसर्गेभ्यः"इति ईत्वम्। व्युत्पत्तिमात्रमिदम्। प्रतिकूलाऽनुकूलपर्याया हीमे रूढिशब्दः। आन्वीपिक इति। "अन्वीप "मित्यत्र "ऊदनोर्देशे"इत्युत्वं तु न भवति, अदेशत्वात्।