पूर्वम्: ४।४।३०
अनन्तरम्: ४।४।३२
 
सूत्रम्
कुसीददशैकादशात् ष्ठन्ष्ठचौ॥ ४।४।३१
काशिका-वृत्तिः
कुसीददशएकादशात् ष्ठन्ष्ठचौ ४।४।३१

प्रयच्छति गर्ह्यम् इत्येव। कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसिदम्। एकादशार्था दश दशैकादशशब्देन उच्यन्ते। कुसीददशएकादशशब्दाभ्यां यथासङ्ख्यं ष्ठन् ष्ठचित्येतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यम् इत्येतस्मिन् विषये। ठको ऽपवादौ। कुसिदं प्रयच्छति कुसीदिकः। कुसीदिकी। दशैकादशिकः। दशैकादशिकी।
न्यासः
कुसीददशैकादशात् ष्ठन्ष्ठचौ। , ४।४।३१

तत्रापि कुसीदार्थे वस्तुनि दशैकादशार्थेषु च दशसु दशैकादशशब्दं वत्र्तयित्वा ततः प्रत्ययः। सर्वतः पूर्ववदभिप्रायो वेदितव्यः। दश चैकादश चेति समानाधिकरणसमासः। ननु च भिन्नविषययोः सामानाधिकरण्यं नोपपद्यते? दशैकादशशभ्दोऽप्येकादशार्थेषु दशस्वेवोपचराद्वत्र्तत इत्यदोषः। यो दश प्रयच्छत्येकादश एव स्युरिति स दशैकादश इत्युच्यते। दशैकादशादिति निर्देशादकारान्तत्वं निपात्यते; किमर्थम्? वाक्येऽप्यकारान्तत्वश्रवणार्थ दशैकादशान् प्रयच्छतीति॥
बाल-मनोरमा
कुसीददशैकादशात् ष्ठन्ष्ठचौ १५६०, ४।४।३१

कुसीद। गह्र्रार्थाभ्यामिति। कुसीद, तदशैकादश--आभ्यां द्वितीयान्ताभ्यां गह्र्रार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात्ष्ठन्ष्ठचौ स्त इत्यर्थः। षित्त्वं ङीषर्थमित्याह--कुसीदिकीति। नित्त्वचित्त्वयोस्तु स्वरे विशेषः। अथ ष्ठच् प्रकृतिं दशैकादशशब्दं व्युत्पादयति--एकादशार्थत्वादित्यादिना। यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्का ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्का एकादशार्थत्वादेकादशशब्देन उपचर्यन्ते। ततश्च एकादश च ते दश चेति कर्मधारये "सङ्ख्याया अल्पीयस्या" इति दशन्शब्दस्य पूर्वनिपातः। इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशा इति रूपमित्यर्थः। दशैकादशिक इति। एकादश निष्खानधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत्। अथ लौकिकविग्रहवाक्यं दर्शयति--दशैकादशान् प्रयच्छतीति। इहापीति। विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणदातैव तद्धितार्थः प्रधानभूत इत्यर्थः।

तत्त्व-बोधिनी
कुसीददशैकादशात् ष्ठन्ष्ठचौ १२०७, ४।४।३१

निपात्यते इति। अतएव व्याख्यातृप्रयोगोऽप्युपपद्यत इत्याशयेनोदाहरति---दशैकादशानिति। "सङ्ख्याया अल्पीयस्याः"इति पूर्वनिपातः। उत्तमर्ण एवेति। दश दत्त्वा एकादश गृह्णातीति तस्यैव गह्र्रत्वादिति भावः।