पूर्वम्: ४।४।३१
अनन्तरम्: ४।४।३३
 
सूत्रम्
उञ्छति॥ ४।४।३२
काशिका-वृत्तिः
उच्छति ४।४।३२

तदिति द्वितीयासमर्थादुच्छति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। बदराणि उच्छति बादरिकः। श्यामाकिकः। भूमौ पतितस्यैकैकस्य कणस्योपादानमुञ्छः। कणानुञ्छति काणिकः।
लघु-सिद्धान्त-कौमुदी
उञ्छति ११२५, ४।४।३२

बदराण्युञ्छति बादरिकः॥
न्यासः
उञ्छति। , ४।४।३२

"उञ्छति" इति। उद्धुनोतीत्यर्थः॥
बाल-मनोरमा
उञ्छति १५६१, ४।४।३२

उञ्छति। तदिति द्वितीयान्तमनुवर्तते। उञ्छतीत्यर्थे द्वितीयान्ताट्ठगित्यर्थः। भूम्यां निपतितस्य व्रीह्रादेः कणश आदानमुञ्छः।

तत्त्व-बोधिनी
उञ्छति १२०८, ४।४।३२

उञ्छति। भूमौ पतितस्यैकैकस्योपादानमुञ्छः।