पूर्वम्: ४।४।४२
अनन्तरम्: ४।४।४४
 
सूत्रम्
समवायान् समवैति॥ ४।४।४३
काशिका-वृत्तिः
समवायान् समवैति ४।४।४३

समवायावाचिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः समवैति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समवायः समूहः उच्यते, न संप्रधारणा। समवायानिति बहुवचनं सरूपविधिनिरासार्थम्। समवैति आगत्य तदेकदेशी भवति इत्यर्थः। समवायान् समवैति सामवायिकः। सामाजिकः। सामूहिकः। सान्निवेशिकः।
न्यासः
समवायान् समवैति। , ४।४।४३

"समवायः समूह उच्यते, न सम्प्रसारणा" इति। कुत एतत्? तत्र समवैतीत्यस्य प्रत्ययार्थस्यायोगात्। आगत्य तदेकदेशीभवतीति समवैतिशब्दस्यार्थः। सम्प्रधारणा चामूर्तिः, चैतसिको धर्मः, न च तदेकदेशीभवितुं शक्यते। तस्मात् समूह एव समवायशब्दस्यार्थः, नैतीत्यस्यार्थः। एतीति वत्र्तमाने समवैतीति वचनमर्थविशेषप्रतिपत्त्यर्थम्। एतीति प्राप्तिमात्रं कुर्वन्नुच्यते। समवैतीत्यागत्य तदेकदेशीभवतीति॥
बाल-मनोरमा
समवायान्समवैति १५७२, ४।४।४३

समवायान्समवैति। द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः। बहुवचनात्तदर्थवाचिशब्दग्रहणम्। समवैति=मेलयतीत्यर्थः।

तत्त्व-बोधिनी
समवायान्समवैति १२१६, ४।४।४३

समवायान्। समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक्स्यात्समवैतीत्यर्थे। इह समवपूर्वस्येणोऽर्थः प्राविश्यैकदेशीभवनम्। तत्र गुणभूतप्रवेशाऽपेक्षया समवायानिति द्वितीयानिर्देशः। विशेष्यापेक्षया तु लोके सप्तमी प्रायेण प्रयुज्यते---"कुरुक्षेत्रे समवेताः"इति यथा। "एत्येधती"ति वृद्धिरिह न भवति, एजादित्वाऽभावात्।