पूर्वम्: ४।४।४३
अनन्तरम्: ४।४।४५
 
सूत्रम्
परिषदो ण्यः॥ ४।४।४४
काशिका-वृत्तिः
परिषदो ण्यः ४।४।४४

परिषदः ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन् विषये। ठको ऽपवादः। परिषदं समवैति पारिषद्यः।
न्यासः
परिषदो ण्यः। , ४।४।४४

बाल-मनोरमा
परिषदो ण्यः १५७३, ४।४।४४

परिषदो ण्यः। द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः।