पूर्वम्: ४।४।४४
अनन्तरम्: ४।४।४६
 
सूत्रम्
सेनाया वा॥ ४।४।४५
काशिका-वृत्तिः
सेनाया वा ४।४।४५

सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन्नर्थे। ठको ऽपवादः। पक्षे सो ऽपि भवति। सेनां समवैति सैन्यः, सैनिकः।
न्यासः
सेनाया वा। , ४।४।४५

बाल-मनोरमा
सेनाया वा १५७४, ४।४।४५

सेनाया वा। ण्यः स्यादिति। शेषपूरणमिदम्। द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः। सैन्याः सैनिका इति। सेनां मेलयन्तीत्यर्थः।

तत्त्व-बोधिनी
सेनाया वा १२१७, ४।४।४५

सैन्याः सैनिका इति। द्वितीयान्ताण्ण्यठकौ। यत्तु "सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते"इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम्।