पूर्वम्: ४।४।५८
अनन्तरम्: ४।४।६०
 
सूत्रम्
शक्तियष्ट्योरीकक्॥ ४।४।५९
काशिका-वृत्तिः
शक्तियष्ट्योरीकक् ४।४।५९

शक्तियष्टिशब्दाभ्याम् ईकक् प्रत्ययो भवति तदस्य प्रहरणम् इत्येतस्मिन् विषये। ठको ऽपवादः। शक्तिः प्रहरणम् अस्य शाक्तीकः। याष्टीकः।
न्यासः
शक्तियष्ट�ओरीकक्। , ४।४।५९

अथ दीर्घोच्चारणं किमर्थम्, इकगेव नोच्येत, इकक्यपि सवर्णदीर्घत्वे कृते शाक्तीको याष्टीक इति सिध्यत्येव? न सिध्यति; इकारस्य "यस्येति च" ६।४।१४८ इति लोपेन भवितव्यम्। तत्कुतः सवर्णदीर्घत्वम्? इकारोच्चारणसामथ्र्यादेव लोपो न भविष्यति। ननु चावग्रहनिवृत्तिरिकारस्य प्रयोजनं स्यात्? नैतत्; यदि ह्रेतत् प्रयोजनं स्यात् सूत्रारम्भोऽनर्थखः स्यात्; ठकाप्यनवग्रहस्य सिद्धत्वात्? नानर्थकः ; वाक्यनिवृत्त्यर्थत्वात्। एवमपि प्रत्ययग्रहणमनर्थकं स्यात्, ठक्प्रत्ययो हि प्रकृतः , तत्रैतावदेन वक्तव्यम्-- शक्कतियष्ट()ओरिति। एवं पुनर्विधानां वाक्यनिवृत्त्यर्थं भविष्यति, किमीकग्विधानेन? तस्मादिकग्ग्रहणसामथ्र्याल्लोपो न भविष्यति। एवमपि ठकैव "यस्येति च" ६।४।१४८ इति लोपाभावेनानवग्रहे सिद्धे हीकग्ग्रहणमधिकविधानार्थं प्रतीयते। तेन "यस्येति च" ६।४।१४८ इति लोपो न भवति। यथा तस्मादकः सवर्णे ६।१।९७ दीर्घोऽपि न स्यादिति विगृहीतमेव श्रूयेत। तस्मादीकग्वक्तव्यः
बाल-मनोरमा
शक्तियष्ट�ओरीकक् १५८८, ४।४।५९

शक्तियष्ट()ओरीकक्। शक्तियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे ईकक् स्यादित्यर्थः।