पूर्वम्: ४।४।५९
अनन्तरम्: ४।४।६१
 
सूत्रम्
अस्तिनास्तिदिष्टं मतिः॥ ४।४।६०
काशिका-वृत्तिः
अस्तिनास्तिदिष्टं मतिः ४।४।६०

तदस्य इत्येव। तदिति प्रथमासमर्थेभ्यः अस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत् तत् प्रथमासमर्थं मतिश्चेत् तद् भवति। अस्ति मतिः अस्य आस्तिकः। नास्ति मतिः अस्य नास्तिकः। दैष्टिकः। न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोको ऽस्ति इति यस्य मतिः स आस्तिकः। तद्विपरीतो नास्तिकः। प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः। तदेतदभिधानशक्तिस्वभावाल् लभ्यते। अस्तिनास्तिशब्दौ निपातौ, वचनसामर्थ्याद् वा आख्याताद् वाक्याच् च प्रत्ययः।
न्यासः
अस्तिनास्तिदिष्टं मतिः। , ४।४।६०

"किं तर्हि परलोकोऽस्तीति {यस्य मतिः---काशिका} मतिर्यस्य" इति। कथं पुनरसति विशेषोपादान एतल्लभ्यते? इत्याह-- "तदेतत्" इत्यादि। अभिधानशक्तिस्वाभाव्याल्लभ्यते। ननु चास्तीति तिङन्तम्, नास्तीति वाक्यम्। अत एताभ्यां न प्राप्नोति प्रत्ययः, प्रातिपदिकाधिकारात् (४।१।१।)? इत्यत आह-- "अस्तिनास्तिशब्दौ" इत्यादि। अभ्युपगम्यापि तिङन्तत्वं वाक्यत्वञ्च परिहारान्तरमाह-- "वचनादाख्याताद्वाक्याच्च प्रत्ययः" इति॥
बाल-मनोरमा
अस्तिनास्ति-दिष्टं मतिः १५८९, ४।४।६०

अस्ति नास्ति। तदस्येत्येवेति। अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्मान्नास्तीत्यस्माद्दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः। अस्तिनास्तिशब्दौ निपातौ। यद्वा वचनादेव आख्यातात्प्रत्ययः। "दैवं दिष्ट"मित्यमरः।

तत्त्व-बोधिनी
आस्तिनास्ति--दिष्टं मतिः १२२६, ४।४।६०

आस्तिक इति। अस्तिनास्तिशब्दौ निपातौ। यद्वा वचनसामथ्र्यादस्तीत्याख्यातात्, नास्तीति निपाताख्यातसमुदायाच्च प्रत्ययः। दिष्टमिति। "दैवं दिष्टं भागधेय"मित्यमरः।"नालम्बते दैष्टिकता"मिति माघः। "प्रमाणानुगा मतिर्दिष्टा"--इति प्राचोक्तिस्तूपेक्ष्या। दिष्टशब्दस्य स्त्रीत्वे, प्रमाणानुगमतिवाचकत्वे चोक्तकोशविरोधादिति दिक्।