पूर्वम्: ४।४।६०
अनन्तरम्: ४।४।६२
 
सूत्रम्
शीलम्॥ ४।४।६१
काशिका-वृत्तिः
शीलं ४।४।६१

तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ट्यर्थे ठक् प्रत्ययो भवति यत्तत् प्रथमासमर्थं शीलं चेद् तद् भवति। शीलं स्वभावः। अपूपभक्षणं शीलम् अस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति।
लघु-सिद्धान्त-कौमुदी
शीलम् ११३१, ४।४।६१

अपूपभक्षणं शीलमस्य आपूपिकः॥
न्यासः
शीलम्। , ४।४।६१

"अपूपभक्षणं शीलमस्य" इति। शीलविषयत्वादुपाचारात् तथा व्यपदेशः। भक्षणक्रिया तद्विषयञ्च शीलं तद्धितवृत्तावन्तर्भवति। तेन तत्र प्रतीयमानत्वाद्भक्षणशीलशब्दौ न प्रयुज्येते इति भावः॥
बाल-मनोरमा
शीलम् १५९०, ४।४।६१

शीलम्। अस्येत्यर्थे शीलवाचिनः प्रथमान्ताट्ठगित्यर्थः। शीलं=स्वभावः। अपूपभक्षणमिति। अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः।