पूर्वम्: ४।४।६३
अनन्तरम्: ४।४।६५
 
सूत्रम्
बह्वच्पूर्वपदाट्ठच्॥ ४।४।६४
काशिका-वृत्तिः
बह्वच्पूर्वपदाट् ठच् ४।४।६४

बह्वच् पूर्वपदं यस्य तस्माद् बह्वच्पूर्वपदात् प्रातिपदिकात् ठच् प्रत्ययो भवति तदस्य कर्माध्ययने वृत्तम् इत्येतस्मिन्नर्थे ठको ऽपवादः। द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः। त्रयोदशान्यिकः। चतुर्दशान्यिकः। चतुर्दशापपाठा अस्य जाता इत्यर्थः। उदात्ते कर्तव्ये यो ऽनुदात्तं करोति स उच्यते अन्यत् त्वं करोषि इति।
न्यासः
बह्वच्पूर्वपदाट्ठच्। , ४।४।६४

"द्वादशान्यिकः" इति। द्वादशशब्दो बह्वच्पूर्वपदम्। द्वौ च दश चेति द्वन्द्वः। "द्व्यष्टनः संख्यायामबहुव्रीह्रशीत्योः" ६।३।४६ इत्यात्त्वम्, ततो द्वादशान्यानीति विगृह्र "तद्धितार्थे" ९२।१।५१) इति समासः। ननु चैकादेशे कृते पूर्वोत्तरपदाभावात् बह्वच्पूर्वपदं न भवति, न चान्तादिवद्भावोऽस्ति -- "उभयत आश्रये नान्तादिवत्" (व्या।प।५१) नैष दोषः; "नेन्द्रस्य परस्य" ७।३।२२ इति ज्ञापकादेशादेशात् पूर्वं प्रत्ययः। "तत्रोदशान्यिकः" इति। त्रयश्च दश चेति द्वन्द्वः, "त्रेस्त्रयः" ६।३।४७ इति त्रय आदेशः। अन्यशब्दोऽत्र सम्यक् पाठापेक्षयापपाठे वत्र्तत इत्यत आह-- "चतुर्दशापपाठाःर" इत्यादि। कथं पुनज्र्ञायतेऽपाठेऽन्यशब्दो वत्र्तते? इत्याह-- "उदात्ते" इत्यादि। उदात्ते कत्र्तव्येऽनुदात्तकरणमपपाठः। तत्र य उदात्ते कत्र्तव्येऽनुदात्तं करोति स यस्मादन्यं करोषीत्युच्यते ततो ज्ञायतेऽन्यशब्दोऽपपाठे वत्र्तत इति॥
बाल-मनोरमा
बह्वच्पूर्वपदाट्ठच् १५९४, ४।४।६४

बह्वच्पूर्वपदाट्ठच्। "तदस्य कर्माध्ययने वृत्त"मित्यनुवर्तते। तदाह--प्राग्विषये इति। द्वादशान्यिक इति। "तद्धितार्थ" इति समासः। एवं त्रयोदशान्यिकः चित्त्वान्नादिवृद्धिः।