पूर्वम्: ४।४।६४
अनन्तरम्: ४।४।६६
 
सूत्रम्
हितं भक्षाः॥ ४।४।६५
काशिका-वृत्तिः
हितं भक्षाः ४।४।६५

तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत् तत्प्रथमासमर्थं हितं चेत् तद् भवति, तच् च भक्षाः। ननु च हितयोगे चतुर्थ्या भवितव्यं, तत्र कथं षष्ठ्यर्थे प्रत्ययो विधीयते? एवं तर्हि सामर्थ्याद् विभक्तिविपरिणामो भविष्यति। अपूपभक्षणं हितम् अस्मै आपूपिकः। शाष्कुलिकः। मौदकिकः। हितार्थक्रिया च तद्धितवृतावन्तर्भवति।
न्यासः
हितं भक्षाः। , ४।४।६५

ननु हितशब्दयोगे चतुथ्र्या भवितव्यम्, "हितयोगे चतुर्थी भवति" (वा। १२३) इत्युपसंख्यानात्, "तस्मैहितम्" (५।१।५) इति निर्देशात्? "सामथ्र्याद्विभक्तिविपरिणामो भविष्यति" इति। सामथ्र्य पुनस्तदेवोपसंख्यानम्। लिङ्गञ्च----हितार्था क्रिया तद्धितवृत्तान्तर्भवति, तेन न प्रयुज्यत इति॥
बाल-मनोरमा
हितं भक्षाः १५९६, ४।४।६५

हितं भक्षाः। तदस्येत्यनुवृत्तम्। तत्र षष्ठी चतुथ्र्याविपरिणम्यते, हितयोगात्। तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्यात्, यद्धितं भक्षाश्चेत्ते स्युरित्यर्थः। संस्कृतं भक्षा इति वद्व्याख्येयम्। अपूपभक्षणमिति। अनेन अपूपशब्दोऽपूपभक्षणे लाक्षणिक इति सूचितम्। अपूपो हितमित्यर्थे तु न ठक्, अभिधानस्वाभाव्यादिति भावः।

तत्त्व-बोधिनी
हितं भक्षाः १२२९, ४।४।६५

हितं भक्षाः। "अस्ये"ति प्रकृतमपीह हितयोगाच्चतुथ्र्या विपरिणम्यते, "तदस्मै"इत्यस्यापकर्षो वेत्याशयेनाह---अपूपभक्षणं हितमस्मा इति। अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः।