पूर्वम्: ४।४।६९
अनन्तरम्: ४।४।७१
 
सूत्रम्
अगारान्ताट्ठन्॥ ४।४।७०
काशिका-वृत्तिः
अगारान्ताट् ठन् ४।४।७०

अगारशब्दान्तात् प्रातिपदिकात् ठन् प्रत्ययो भवति तत्र नियुक्तः इत्येतस्मिन् विषये। ठको ऽपवादः। देवागारे नियुक्तः देवागारिकः। कोष्ठागारिकः। भाण्डागारिकः।
न्यासः
अगारान्ताठ्ठन्। , ४।४।७०