पूर्वम्: ४।४।७२
अनन्तरम्: ४।४।७४
 
सूत्रम्
निकटे वसति॥ ४।४।७३
काशिका-वृत्तिः
निकटे वसति ४।४।७३

निकटशाब्दात् सप्तमीस्मर्थात् वसति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। यस्य शास्त्रतो निकटवासस् तत्र अयं विधिः। आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यम् इति शास्त्रम्। निकटे वसति नैकटिको भिक्षुः।
लघु-सिद्धान्त-कौमुदी
निकटे वसति ११३२, ४।४।७३

नैकटिको भिक्षुकः॥
लघु-सिद्धान्त-कौमुदी
इति ठगधिकारः। (प्राग्वहतीयाः) ७ ११३२, ४।४।७३

लघु-सिद्धान्त-कौमुदी
अथ यदधिकारः ११३२, ४।४।७३

न्यासः
निकटे वसति। , ४।४।७३

निकटे समीप इत्यर्थः। यत्र शास्त्रतो निकटवासस्तत्रायायं विधिः। एतच्च सप्तम्यां समर्थविभक्तौ लब्धायां पुनः सप्तमीनिर्देशात् प्रसिद्ध्युपसंग्रहणेन लभ्यते। स ह्रेवमर्थः कृतः--- इष्टे सप्तम्यन्ते यथा स्यात्, अनिष्टान्मा भूत्। स पुनः शास्त्रतो निकटवास आरण्यकस्य भिक्षोरिति दर्शयति-- "आरण्यकेन भिक्षुणा" इत्यादि॥
बाल-मनोरमा
निकटे वसति १६०४, ४।४।७३

निकटे वसति। अस्मिन्नर्थे सप्तम्यन्तातन्निकटशब्दाट्ठगित्यर्थः। नैकटिको भिक्षुरिति। ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शास्त्रमुल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः। अत्र व्याख्यानमेव शरणम्।

तत्त्व-बोधिनी
निकचे वसति १२३४, ४।४।७३

नैकटिको भिक्षुरिति। सन्यासी हिल ग्रामस्य निकटे वसन्भिक्षार्थमेव ग्रामे प्रविशति, न तु तत्र वसतीति भावः।