पूर्वम्: ४।४।७१
अनन्तरम्: ४।४।७३
 
सूत्रम्
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति॥ ४।४।७२
काशिका-वृत्तिः
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ४।४।७२

तत्र इत्येव। कठिनशब्दान्तात् सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठक् प्रत्ययो भवति व्यवहरति इत्येतस्म्न्नर्थे। व्यवहारः क्रियातत्त्वम् यथा लौकिकव्यवहारः इति। वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः। वार्ध्रकठिनिकः। प्रास्तारिकः। सांस्थानिकः।
न्यासः
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति। , ४।४।७२

अल्पाच्तरस्य प्रस्तारशब्दस्य च पूर्वनिपातमकुर्वन्नेतत् सूचयति-- अन्यदपि कार्यं लक्षणप्राप्तं न भवति। तेन कठिनान्तशब्दस्य ग्रहणं न भवतीति कठिनशब्दान्तं प्रातिपदिकं गृह्रते। "{हरतिरयम्-- प्रांउ। पाठः} व्यवहरतिरयमस्ति पणिना समानार्थः-- यस्य "व्यवह्मपणोः समर्थयोः" २।३।५७ इत्यत्र ग्रहणम्, अस्ति विवादे-- व्यवहारे परिह्मतमिति, अस्ति च विक्षेपे शलाकां व्यवहरतीति, अस्ति च लौकिके क्रियातत्वे-- लौकिको व्यवहार इति। इह तु क्रियातत्त्वे वत्र्तमानस्य ग्रहणमित्येतद्दर्शयितुमाह--"व्यवहारः क्रियातत्त्वम्" इति। क्रियाया अविपरीतस्वभावत्वादि क्रियातत्त्वम्। "यथा" इत्यादि। लौकिको व्यवहार इत्यत्र यथा व्यवहारः क्रियातत्त्वे वत्र्तते, तथेहापि दर्शयति। क्रियातत्त्वे वत्र्तमानस्य ग्रहणम्। "तत्र" ४।४।६९ इतिसप्तम्यधिकारे सप्तमीनिर्देशात् प्रसिद्ध्युपसंग्रहणं लभ्यते। "वांशकठिनिकश्छक्रचरःर" इति। यश्चक्रचरः सन्ननुष्ठेयां क्रियां शास्त्रोक्तमविगीता वंशकठिनेऽनुतिष्ठति स एवमुच्यते॥
बाल-मनोरमा
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति १६०३, ४।४।७२

कठिनान्तप्रस्तार। अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यष्ठगित्यर्थः। वंशकठिनशब्दं विवृणोति--वंशा इति। व्यवहरणम्-उचितक्रिया। तदाह--यस्मिन्देशे इति। प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपर्यायौ।

तत्त्व-बोधिनी
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति १२३३, ४।४।७२

कठिनान्त। प्रस्तारसंस्थानशब्दौ सन्निवेशपर्यायाविति बहवः। प्रस्तारो यज्ञः। "प्रे स्त्रोऽयज्ञे"इति घञ्। संस्थानं संनिवेश इत्येके।