पूर्वम्: ४।४।७६
अनन्तरम्: ४।४।७८
 
सूत्रम्
धुरो यड्ढकौ॥ ४।४।७७
काशिका-वृत्तिः
धुरो यड्ढकौ ४।४।७७

तद् वहति इत्येव। धुरित्येतस्माद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे यत् ढकित्येतौ प्रत्ययौ भवतः। धुरं वहति धुर्यः, धौरेयः।
लघु-सिद्धान्त-कौमुदी
धुरो यड्ढकौ ११३५, ४।४।७७

हलि चेति दीर्घे प्राप्ते -।
न्यासः
धुरो यड्ढकौ। , ४।४।७७

अथ "धुरो ठक् च" इत्येवं कस्मान्नोक्तम्, चकारः समुच्चयार्थः, यथाभिहिते प्रत्यये विज्ञायमाने यदेव भविष्यति? नैतदेवम्; यो हि धुरं वहति धुसोऽसौ वोढा भवति।तस्य यथाविहिते प्रत्यये विज्ञायमाने "तस्येदम्" ४।३।१२० इत्यणपि स्यात्। यद्()गर्हणात् तस्येदंविवक्षायामपि यदेव भवति॥
बाल-मनोरमा
धुरो यड्ढकौ १६०८, ४।४।७७

धुरो यड्ढकौ। धुरशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्, ढक्च स्यादित्यर्थः। "यड्ढकञो"विति पाठान्तरम्। हलि चेतीति। "धुर्वी हिंसायां" "भ्राजभासे"ति क्विप्। "राल्लोपः" इति लोपः। अ()आआदिस्कन्धवाह्रप्रदेशो युगावयवो धुः। धुर्शब्दाद्यति "हलि चे"ति दीर्घे प्राप्ते सतीत्यर्थः।

तत्त्व-बोधिनी
धुरो यड्ढकौ १२३७, ४।४।७७

धुरो। "धुरो ढक् चे"त्येव सुवचम्।