पूर्वम्: ४।४।८१
अनन्तरम्: ४।४।८३
 
सूत्रम्
संज्ञायां जन्याः॥ ४।४।८२
काशिका-वृत्तिः
संज्ञायां जन्याः ४।४।८२

तद् वहति इत्येव। जनीशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, समुदायेन चेत् संज्ञागम्यते। जनीं वहति जन्या, जामातुर्वयस्या। सा हि विहारादिषु जमातृसमीपं प्रापयति। जनी वधूरुच्यते।
न्यासः
संज्ञायां जन्याः। , ४।४।८२

अस्त्यत्र यर्भ इति "{इन् इत्येव सूत्रम्-- द।उ।} इन् सर्वधातुभ्यः" (द।उ।१।४६) जनयतीति वा। "अत्र कृदिकारादक्तिनः" (ग।सू।५०) "सर्वतोऽक्तिन्नर्थात्" (ग।सू।५१) इति ङीप्-- जनी, तां वहन्ति जन्याः = जामातुर्वयस्याः। विवाहमानिताभिधीयते। केचित्तु कत्र्तरि जायतेऽस्यां गर्भ इति "कृत्यल्युटो बहुलम्" ३।३।११३ इति ल्युटि जननशब्दाच्च ङीपि नकाराकारयोर्लोपेन साधयन्ति। ननु च जनीशब्दादेव यद्विधेयः? सर्वकालार्थं निपातनमित्येके॥
बाल-मनोरमा
संज्ञायां जन्याः १६१४, ४।४।८२

संज्ञायां जन्याः। जनीशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः। जनी वधूरिति। जायतेऽस्यां गर्भ इत्यर्थे "जनिघसिभ्या"मिति जनधातोरिणि "जनिवध्योश्चे"ति वृद्धिप्रतिषेधे "कृदिकारा"दिति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः। "समाः स्नुषाजनीवध्वः" इत्यमरः। वहन्तीत्यस्य विवरणं--"प्राप्यन्ती"ति। "वरगृह" मिति शेषः। जन्या इ।ति। "जामातुर्वयस्या" इति शेषः। "जन्याः स्निग्धा वरस्य ये" इत्यमरः।

तत्त्व-बोधिनी
संज्ञायां जन्याः १२४३, ४।४।८२

जनी वधूरिति। "जनिघसिभ्यामिण्"। "जनिवध्योश्चे"ति न वृद्धि। "कृदिकारा"दिति ङीष्। ततोऽनेन सूत्रेण यति जन्या=जामातुर्वयस्या। सा हि विवादादिषु वधूं जामातृसमीपं प्रापयति। कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुङ्क्तः---"यतोति जन्यानवदत्कुमारी"ति। जनीं वहन्तीति जन्यस्तानित्यर्थः।