पूर्वम्: ४।४।८२
अनन्तरम्: ४।४।८४
 
सूत्रम्
विध्यत्यधनुषा॥ ४।४।८३
काशिका-वृत्तिः
विध्यत्यधनुषा ४।४।८३

ततिति द्वितीयासमर्थाद् विध्यति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, न चेद् धनुष्करणं भवति। पादौ विध्यन्ति पद्याः शर्कराः। ऊरव्याः कण्टकाः। अधनुषा इति किम्? पादौ विध्यति धनुषा। ननु असमर्थत्वादनभिधानाच् च प्रत्ययो न भवति, न हि धनुषा पद्य इति विवक्षितो ऽर्थः प्रतीयते? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते, यस्यां धनुष्करणम् न सम्भाव्यते इति। तेन इह न भवति, चौरं विध्यति, शत्रुं विध्यति देवदत्तः इति।
न्यासः
विध्यत्यधनुषा। , ४।४।८३

"पद्याः" इति। "पद्यत्यतदर्थे" ६।३।५२ इतिपादशब्दस्य पद्भावः। "ऊरव्याः" इति। "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः। "ननु च" इत्यादि। धनुरत्र प्रकृत्यर्थः, प्रत्ययार्थेन वाह्रं करणमपेक्ष्यते, तेन सापेक्षमसमर्थं भवतीत्यसामथ्र्यम्? ननु चट व्यधनमेवात्र सापेक्षम्, क्रियया करणं सम्बध्यत इति कृत्वा, तच्च व्यधनं क्रियाप्रधानत्वादाख्यातस्य प्रधानं बवति, प्रधानस् सापेक्षस्य भवत्येव वृत्तिः, यथा-- राजुपुरषोऽयमभिरूप इति? नैतदस्ति; यद्यपि क्रियाप्रधानमाख्यातम्, तथापीह प्रत्ययार्थं एव प्रधानम्। प्रत्ययार्थस्य साधनं व्यद्धा। तथा च प्रागुक्तम्---"क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितेः स्वभावात् साधनप्रधानः" इति। अथ क्रियाद्वारेण व्यद्धुरपि करणं प्रत्यपेक्षा भवतीति कल्प्यते, तथा च सति प्रकृत्यर्थस्यापि क्रियाद्वारेणैव करणं प्रत्यपेक्षा भवतीति केन वार्यते ! न हि पादौ विध्यति धनुषेति करणविवक्षायां व्यधनमात्रस्य पादौ कर्म धनुष्करणविशिष्टस्य। तस्माद्व्यधनस्यापि क्रियाकरणे प्रत्यपेक्षेत्यसाम्रथ्यात्प्रत्ययो न भविष्यति। "अनभिधानाच्च" इति। अत्रैवोचपपत्त्यनतरम्। कथं पुनरुपपत्त्यन्तरमित्याह--- "न हि" इत्यादि। धनुषा पद्य इत्युक्ते धनुष पद्यं प्रत्युपलक्षणभावः सम्भाव्यते, यथा--शिखया परिव्राजकमद्राक्षीदित्त्र शिखया परिव्राजकं प्रति। धनुषा सह दृष्टः पद्य इत्येषोऽप्यर्थश्चाशङ्क्यते। न तु पादौ विध्यति धनुषेत्ययमर्थो विवक्षितः प्रतीयते। "एवं तर्हि " इत्यादिना क्रियाविशेषणपरो धनुषेति निर्देशः; न धनुषः करणत्वप्रतिषेधः। प्रतिषेधे प्रधानमिति दर्शयति--"तेन" इत्यादिना। क्रियत एव धनुषः प्रतिषेधः, तेन क्रिया विशेष्यते। तेन चौरं विध्यतीत्यादौ न भविष्यति। सम्भाव्यते हि चौरादिव्यधनक्रियया धनुषः करणत्वम्॥
बाल-मनोरमा
विध्यत्यधनुषा १६१५, ४।४।८३

विध्यत्यधनुषा। तदिति द्वितीयान्तमनुवर्तते। अधनुषेति सप्तम्यर्थे तृतीया। धनुषोऽभावः-अधनुः, तस्मिन्सतीत्यर्थः। अर्थाऽभावे नञ्तत्पुरुषः, "अर्थाभावे अव्ययीभावे अयं विकल्प्यते" इत्युक्तत्वात्। द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुष करणस्याऽभावे सतीत्यर्थः। न चेत्तत्रेति। तत्र=वेधने धनुः करणं न चेदित्यर्थः। पद्या इति। पादशब्दाद्यति "पद्यत्यतदर्थे" इति पद्भावः। अधनुषेति किम्?। धनुषा चोरं विध्यति देवदत्तः। अत्र चोराद्यन्न भवति। न चाऽसामथ्र्यादेवात्र यन्नेति वाच्यं, विध्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामथ्र्याऽविधातात्। अन्यथा "औपगवो देवदत्त उपगुनप्तृत्वा" दित्यादौ अणादिकं न स्यात्, प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्चेति शब्देन्दुशेखरे विस्तरः।

तत्त्व-बोधिनी
विध्यत्यधनुषा १२४४, ४।४।८३

पद्या इति। "पद्यत्यतदर्थे"इति पद्भावः। अधनुषा किम्()। चोरं विध्यति। सम्भाव्यते हि चोरब्यधने धनुषः करणता। यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वादेव न भवति। एवं च "न चेत्तत्र धनुः करण"मित्यत्र "सम्भव्यते"इति शेषो बोध्याः।