पूर्वम्: ४।४।८३
अनन्तरम्: ४।४।८५
 
सूत्रम्
धनगणं लब्धा॥ ४।४।८४
काशिका-वृत्तिः
धनगणं लब्धा ४।४।८४

तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्याम् लब्धा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धन्यः। गण्यः। लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर् युज्यते।
न्यासः
धनगणं लब्धा। , ४।४।८४

कथं पुनरत्र द्वितीया समर्थविभक्तिः, यावता "कर्त्तृकर्मणोः कृति" (२।३।६५) इति षष्ठ()आ भवितव्यम्? इत्याह-- "लब्धेति तृन्नन्तम्" इत्यादि। तृन्नन्तस्य हि प्रयोगे "न लोकाव्ययनिष्षाखलर्थतृनाम्" २।३।६९ इति षष्ठीप्रतिषेधेन द्वितीया भवति॥
बाल-मनोरमा
धनगणं लब्धा १६१६, ४।४।८४

धनगणं लब्धा। धनशब्दाद्गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः। ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह--तृन्नन्तमेतदिति। तथाच "न लोके" ति निषेधान्न षष्ठीति भावः।

तत्त्व-बोधिनी
धनगणं लब्धा १२४५, ४।४।८४

तृन्नन्तमिति। एवं च "न लोके"त्यादिना कृद्योगषष्ठ()आ निषेधात् "धनगण "मिति प्रयोगो निर्बाध इति भावः।