पूर्वम्: ४।४।९३
अनन्तरम्: ४।४।९५
 
सूत्रम्
उरसोऽण् च॥ ४।४।९४
काशिका-वृत्तिः
उरसो ऽण् च ४।४।९४

उरःशब्दात् तृतीयासमर्थान् निर्मिते इत्येतस्मिन्नर्थे ऽण् प्रत्ययो भवति, चकारात् यत् च। उरसा निर्मितः औरसः पुत्रः, उरस्यः पुत्रः। संज्ञाधिकारादभिधेयनियमः।
न्यासः
उरसोऽण् च। , ४।४।९४

"संज्ञाधिकारादभिधेयनियमः" इति। तेनोरसा निर्मितं सुखमित्यादौ न भवतीति भावः॥
बाल-मनोरमा
उरसोऽण् च १६२६, ४।४।९४

उरसोऽण्च। "तृतीयान्तान्निर्मिते इत्यर्थे" इति शेषः। उरस्य इति। "अङ्गादङ्गात्सम्भवसि ह्मदयादधिजायसे" इति श्रुतेरिति भावः। "पुत्र" इति संज्ञाधिकाराल्लब्धम्।

तत्त्व-बोधिनी
उरसोऽण् च १२५३, ४।४।९४

पुत्र इति। संज्ञाधिकारान्नेह--उरसा निर्मितं सुखम्।